________________
वक्रोक्तिजीवितम्
[१.२९ अत्र राशिद्वयकरणस्यायमभिप्रायो यद् विभावादिरूपेण रसाङ्गभूता: शकुनिरुततरुसलिलकुसुमसमयप्रभृतयः पदार्थाः सातिशयस्वभाववर्णनप्राधान्येनैव रसाङ्गतां प्रतिपद्यन्ते । तद्वयतिरिक्ताः सुरगन्धर्वप्रभृतयः सोत्कर्षचेतनायोगिन: शृङ्गारादिरसनिर्भरतया वर्ण्यमाना: सरसहृदयाह्लादकारितामायान्तीति कविभिरभ्युपगतम् । तथाविधमेव लक्ष्ये दृश्यते ।
अन्यच्च कीदृशः - अविभावितसंस्थानरामणीयकरजकः । अविभावितमनालोचित संस्थानं संस्थितिर्यत्र तेन रामणीयकेन रमणीयत्वेन रञ्जक: सहृदयाह्लादकः । तेनायमर्थ:-यदि तथाविधं कविकौशलमत्र संभवति तद् व्यपदेष्टुमियत्तया न कथंचिदपि पार्यते, केवलं सर्वातिशायितया चेतसि परिस्फुरति। अन्यच्च कीदृशः -विधिवैदग्ध्यनिष्पन्ननिर्माणातिशयोपमः । विधिविधाता तस्य वैदग्ध्यं कौशलं तेन निष्पन्नः परिसमाप्तो योऽसौ निर्माणातिशयः सुन्दर: सर्गोल्लेखो रमणीयलावण्यादिः स उपमा निदर्शनं तस्य स तथोक्तः। तेन विधातुरिव कवे: कौशलं यत्र विवेक्तुमशक्यम् । यथा
ज्याबन्धनिष्पन्दभुजेन यस्य विनिःश्वसद्वक्त्रपरंपरेण । कारागृहे निर्जितवासवेन
दशाननेनोषितमा प्रसादात् ॥ ८० ।। अत्र व्यपदेशप्रकारान्तरनिरपेक्ष: कविशक्तिपरिणामः परं परिपाकमधिरूढः।
एतस्मिन् कुलके - प्रथमश्लोके प्राधान्येन शब्दालंकारयोः सौन्दर्य प्रतिपादितम् । द्वितीये वर्णनीयस्य वस्तुन: सौकुमार्यम् । तृतीये प्रकारान्तरनिरपेक्षस्य संनिवेशस्य सौकुमार्यम् । चतुर्थे