________________
१.१९] प्रथमोन्मेषः
२७ यथा-निष्कारणं निकारकणिकापि मनस्विनां मानसमायासयति । यथा-हस्तावचेयं यश: इति । 'कणिका'-शब्दो मूर्तवस्तुस्तोकार्थाभिधायी स्तोकत्वसामान्योपचारादमूर्तस्यापि निकारस्य स्तोकाभिधानपरत्वेन प्रयुक्तस्तद्विदाह्लादकारित्वाद्वक्रतां पुष्णाति। 'हस्तावचेयम्' इति मर्तपुष्पादिवस्तुसंभविसंहतत्वसामान्योपचारादमर्तस्यापि यशसो हस्तावचेयमित्यभिधानं वक्रत्वमावहति । द्रवरूपस्य वस्तुनो वाचकशब्दस्तरङ्गितत्वादिधर्मनिबन्धन: किमपि सादृश्यमात्रमवलम्ब्य संहतस्यापि वाचकत्वेन प्रयुज्यमान: कविप्रवाहे प्रसिद्धः । यथा
___ श्वासोत्कम्पतरङ्गिणि स्तनतटे इति ॥४६ ।। क्वचिदमूर्तस्यापि द्रवरूपार्थाभिधायी वाचकत्वेन प्रयुज्यते। यथा
एकां कामपि कालविषममी शौर्योष्मकण्डव्यय___ व्यग्रा: स्युश्चिरविस्मृतामरचमडिम्बाहवा बाहवः ।। ४७ ।। एतयोस्तरंगिणीति विषमिति च कामपि वक्रतामावहतः ।
विशेषणवक्रत्वं नाम पदपूर्वार्धवक्रतायाः प्रकारो संभवति - यत्र विशेषणमाहात्म्यादेव तद्विदाह्लादकारित्वलक्षणं वक्रत्वमभिव्यज्यते । यथा
दाहोऽम्भःप्रसृतिपचः प्रचयवान् बाष्पः प्रणालोचितः श्वासाः प्रेङ्घितदीप्रदीपलतिका: पाण्डिम्नि मग्नं वपुः । किंचान्यत्कथयामि रात्रिमखिलां त्वद्वर्त्म वातायने हस्तच्छतूविरुद्धचन्द्रमहसस्तस्याः स्थितिवर्तते ।।४८।। अत्र दाहो बाष्पः श्वासा वपुरिति न किंचिद्वैचित्र्यमुन्मीलितम् । प्रत्येक च विशेषणमाहात्म्यात् काचिदेव वक्रताप्रतीतिः । यथा च