________________
वक्रोक्तिजीवितम्
[१.१९ रामोऽसौ भुवनेषु विक्रमगुणः प्राप्तः प्रसिद्धि परामस्मद्भाग्यविपर्ययाद्यदि परं देवो न जानाति तम् । वन्दीवैष यशांसि गायति मरुद्यस्यैकबाणाहति
श्रेणीभूतविशालतालविवरोद्गीणः स्वरैः सप्तभिः ॥४३॥ अत्र राम-शब्दो लोकोत्तरशौर्यादिधर्मातिशयाध्यारोपपरत्वेनोपात्तो वक्रतां प्रथयति ।
पर्यायवक्रत्वं नाम प्रकारान्तरं पदपूर्वार्धवक्रतायाः-यत्रानेकशब्दाभिधेयत्वे वस्तुन: किमपि पर्यायपदं प्रस्तुतानुगुणत्वेन प्रयुज्यते । तथा
वामं कज्जलवद्विलोचनमुरो रोहद्विसारिस्तनं मध्यं क्षाममकाण्ड एव विपुलाभोगा नितम्बस्थली। सद्य:प्रोद्गतविस्मयैरिति गणैरालोक्यमानं मुहुः
पायाद्वः प्रथमं वपुः स्मररिपोर्मिश्रीभवत्कान्तया ॥४४ ।। अत्र ‘स्मररिपोः' इति पर्याय: कामपि वक्रतामन्मीलयति । यस्मात्कामशत्रोः कान्तया सह मिश्रीभाव: शरीरस्य न कथंचिदपि संभाव्यत इति गणानां सद्य:प्रोदगतविस्मयत्वमपपन्नम । सोऽपि पुन: पुन: परिशीलनेनाश्चर्यकारीति 'प्रथम'-शब्दस्य जीवितम् । एतच्च पर्याय वक्रत्वं वाच्यासंभविधर्मान्तरगर्भीकारेणापि परिदृश्यते । तथा अङ्गराज सेनापते. राजवल्लभ रक्षेनं
भीमाद्दुःशासनम् इति ॥४५॥ अत्र त्रयाणामपि पर्यायाणामसंभाव्यमानतत्परित्राणपात्रत्वलक्षण मकिंचित्करत्वं गर्भीकृत्योपहस्यते-रक्षनमिति ।
पदपूर्वार्धवक्रताया उपचारवऋत्वं नाम प्रकारान्तरं विद्यतेयत्रामूर्तस्य वस्तुनो मर्तद्रव्याभिधायिना शब्देनाभिधानमपचारात् ।