________________
१.१९] प्रथमोन्मेषः
२५ शोभिनः वैचित्र्यभनीभ्राजिष्णवः । संभवन्तीति संबन्धः । तदेव दर्शयति
वर्णविन्यासवक्रत्वं पदपूर्वार्धवक्रता ।
वक्रतायाः परोऽप्यस्ति प्रकारः प्रत्ययाश्रयः ॥१९॥ वर्णानां विन्यासो वर्णविन्यासः अक्षराणां विशिष्टन्यसनं तस्य वक्रत्वं वक्रभावः प्रसिद्धप्रस्थानव्यतिरेकिणा वैचित्र्यणोपनिबन्ध: संनिवेशविशेषविहितस्तद्विदाह्लादकारी शब्दशोभातिशयः । यथा
प्रथममरुणच्छायस्तावत्ततः कनकप्रभस्तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः । प्रसरति ततो ध्वान्तध्वंसक्षमः क्षणदामुखे सरसबिसिनीकन्दच्छेदच्छविम॑गलाञ्छनः ॥४१॥
अत्र वर्णविन्यासवक्रतामात्रविहितः शब्दशोभातिशयः सुतरां समन्मीलितः । एतदेव वर्णविन्यासवक्रत्वं चिरन्तनेष्वनुप्रास इति प्रसिद्धम् । अस्य च प्रभेदस्वरूपनिरूपणं स्वलक्षणा वसरे करिष्यते (२।१) । __ पदपूर्वार्धवक्रता-पदस्य सुबन्तस्य तिङन्तस्य वा यत्पूर्वार्धं प्रातिपदिकलक्षणं धातुलक्षणं वा तस्य वक्रता वक्रभावो विन्यासवैचित्र्यम् । तत्र च बहवः प्रकाराः संभवन्ति । यत्र रूढिशब्दस्यैव प्रस्तावसमुचितत्वेन वाच्यप्रसिद्धधर्मान्तराध्यारोपगत्वेन निबन्धः स पदपूर्वार्धवक्रतायाः प्रथमः प्रकारः । यथा
रामोऽस्मि सर्वं सहे ।। ४२॥ द्वितीयः-यत्र संज्ञाशब्दस्य वाच्यप्रसिद्धस्य धर्मस्य लोकोत्तरातिशयाध्यारोपं गर्भीकृत्योपनिबन्धः । यथा