SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ २४ वक्रोक्तिजीवितम् [१.१८ मानता। एतेषां यद्यपि प्रत्येकं स्वविषये प्राधान्यमन्येषां गणीभावस्तथापि सकलवाक्य परिस्पन्दजीवितायमानस्यास्य साहित्यलक्षणस्यव कविव्यापारस्य वस्तुतः सर्वा तिशायित्वम् । यस्मादेतदमुख्यतयापि यत्र वाक्यसन्दर्भान्तरे स्वपरिमलमात्रेणैव संस्कारमारभते तस्यैतदधिवासनाशन्य तामात्रेणैव रामणीयकविरहः पर्यवस्यति । तस्मादुपादेयतायाः परिहाणिरुत्पद्यते । तथा च स्वप्रवृत्तिवैयर्थ्यप्रसङ्गः । शास्त्रातिरिक्तप्रयोजनत्वं शास्त्राभिधेयचतुर्वर्गाधिकफलत्वं चास्य पूर्वमेव प्रतिपादितम् (१।३,५) । अपर्यालोचितेऽप्यर्थे बन्धसौन्दर्यसम्पदा । गीतवद्धृदयाह्लादं तद्विदां विदधाति यत् ।। ३७।। वाच्यावबोधनिष्पत्तौ पदवाक्यार्थजीवितम् । यत्किमप्यर्पयत्यन्तः पानकास्वादवत्सताम् ।।३८।। शरीरं जीवितेनेव स्फुरितेनेव जीवितम् । विना निर्जीवतां येन याति काव्यं विपश्चिताम् ॥ ३९॥ यस्मात्किमपि सौभाग्यं तद्विदामेव गोचरम् । सरस्वती समभ्येति तदिदानी विचार्यते ॥ ४०॥ इत्यन्तरश्लोकाः । । एवं सहिताविति व्याख्याय कविव्यापारवक्रत्वं व्याचष्टेकविव्यापारवक्रत्वप्रकाराः संभवन्ति षट् । प्रत्येकं बहवो भेदास्तेषां विच्छित्तिशोभिनः ॥१८॥ कवीनां व्यापारः कविव्यापारः काव्यक्रियालक्षणस्तस्य वक्रत्वं वक्रभावः प्रसिद्धप्रस्थानव्यतिरेकि वैचित्र्यं तस्य प्रकाराः प्रभेदाः षट् सभवन्ति । मुख्यतया तावन्त एव सन्तीत्यर्थः । तेषां प्रत्येक प्रकाराः बहवो भेदविशेषाः । कीदृशाः-विच्छित्ति
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy