________________
२८
वक्रोक्तिजीवितम्
व्रीडायोगान्नतवदनया संनिधाने गुरूणां बद्धोत्कम्पस्तनकलशया मन्युमन्तनियम्य
[९.१९
तिष्ठेत्युक्तं किमिव न तया यत्समुत्सृज्य बाष्पं मय्यासक्तश्चकित हरिणीहारिनेत्र त्रिभागः ॥ ४९ ॥
अत्र चकितहरिणीहारीति क्रियाविशेषणं नेत्र त्रिभागासङ्गस्य गुरुसंनिधानविहिताप्रगल्भत्वरमणीयस्य कामपि काम नीयतामावहति चकित हरिणीहारिविलोकन साम्येन ।
अयमपरः पदपूर्वार्ध वक्रतायाः प्रकारो यदिदं संवृतिवत्वं नाम - यत्र पदार्थ स्वरूपं प्रस्तावानुगुण्येन केनापि निकर्षेणोत्कर्षेण वा युक्तं व्यक्ततया साक्षादभिधातुमशक्यं संवृतिसामर्थ्योपयोगिना शब्देनाभिधीयते । यथा
सोऽयं दम्भधूतव्रतः प्रियतमे कर्तुं किमप्युद्यतः ॥ ५० ॥ अत्र वत्सराजे वासवदत्ताविपत्तिविधुरहृदयस्तत्प्राप्तिप्रलोभनवशेन पद्मावतीं परिणेतुमीहमानस्तदेवाकरणीयमित्यवगच्छन् तस्य वस्तुनो महापातकस्येवाकीर्तनीयतां ख्यापयति किमपीत्यनेन संवरणसमर्थेन सर्वनामपदेन । यथा च
निद्रानिमीलितदृशो मदमन्थराया
नाप्यर्थवन्ति न च यानि निरर्थकानि । अद्यापि मे वरतनोमंधराणि तस्यास्तान्यक्षराणि हृदये किमपि ध्वनन्ति ॥ ५१ ॥ अत्र किमपीति तदाकर्णन विहितायाश्चित्तचमत्कृतेरनुभव कगोचरत्वलक्षणमव्यपदेश्यत्वं प्रतिपाद्यते । तानीति तथाविधानुभवविशिष्टतया स्मर्यमाणानि । नाप्यर्थवन्तीति स्वसंवेद्यत्वेन व्यपदेशाविषयत्वं प्रकाश्यते । तेषां च न च यानि निरर्थकानीत्य -
1