________________
१.१६]]
प्रथमोन्मेषः णान्तरमलंकारान्तरं विधीयते तदा विहिते कृते, तस्मिन् सति, द्वयी गतिः संभवति । कासौ-तयोः स्वभावोक्त्यलंकारान्तरयोः भेदावबोधो भिन्नत्वप्रतिभासः प्रकटः सुस्पष्टः कदाचिदप्रकटश्चापरिस्फुटो वेति । तदा स्पष्ट प्रकटे तस्मिन् सर्वत्र सर्वस्मिन् कविवाक्ये संसृष्टिरेवैकालंकृतिः प्राप्नोति । अस्पष्टे तस्मिन्नप्रकट सर्वत्रैवैकः संकरोऽलंकारः प्राप्नोति । ततः को दोषः स्यादित्याह
- अलंकारान्तराणां च विषयो नावशिष्यते । अन्येषामलंकाराणामुपमादीनां विषयो गोचरो न कश्चिदप्यवशिष्यते, निविषयत्वमेवायातीत्यर्थः । ततस्तेषां लक्षणकरणवैयर्थ्यप्रसङ्गः । यदि च तावेव संसृष्टिसंकरौ तेषां विषयत्वेन कल्प्यते तदपि न किंचित, तैरेवालंकारकारे स्तस्यार्थस्यानङ्गीकृतत्वात् । इत्यनेनाकाशचर्वणप्रतिमेनालमलीकनिबन्धनेन । प्रकृतमनसरामः। सर्वथा यस्य कस्यचित् पदार्थजातस्य कविव्यापारविषयत्वेन वर्णनापदवीमवतरतः स्वभाव एव सहृदयाह्लादकारी काव्यशरीरत्वेन वर्णनीयतां प्रतिपद्यते। स एव च यथायोगं शोभातिशयकारिणा येन केनचिदलंकारेण योजयितव्यः । तदिदमुक्तम् -- 'अर्थः सहृदयाह्लादकारिस्वस्पन्दसुन्दरः' (१।९) इति । 'उभावेतावलंकायौं' (१।१०) इति च ।
एवं शब्दार्थयोः परमार्थमभिधाय 'शब्दाथौं' इति (१७) काव्यलक्षणवाक्ये पदमेक व्याख्यातम् । इदानीं 'सहितौ' इति (१।७) व्याख्यातुं साहित्यमेतयोः पर्यालोच्यते--
शब्दाथौं सहितावेव प्रतीतौ स्फुरतः सदा । सहिताविति तावेव किमपूर्व विधीयते ॥१६॥ शब्दार्थावभिधानाभिधेयौ सहिताववियुक्तावेव सदा सर्वकालं प्रतीतौ स्फुरतः ज्ञाने प्रतिभासेते। ततस्तावेव सहिताववियुक्ता