________________
वक्रोक्तिजीवितम्
[१.१७ विति पुनः किमपूर्व विधीयते न किंचिदपूर्व निष्पाद्यते, सिद्धं साध्यत इत्यर्थः । तदेवं शब्दार्थयोः स्वभावसिद्ध साहित्यं कः सचेताः पुनस्तदभिधानेन निष्प्रयोजनमात्मानमायासयति ? सत्यमेतत्, किन्तु न वाच्यवाचकलक्षणशाश्वतसंबन्धनिबन्धनं वस्तुतः साहित्यमित्युच्यते । यस्मादेतस्मिन् साहित्यशब्देनाभिधीयमाने कष्टकल्पनोपरचितानि गाङ्कटादिवाक्यान्यसंबद्धानि शाकटिकादिवाक्यानि च सर्वाणि साहित्यशब्देनाभिधीयेरन् । तेन पदवाक्यप्रमाणव्यतिरिक्तं किमपि तत्त्वान्तरं साहित्यमिति विभागोऽपि न स्यात् । ननु च पदादिव्यतिरिक्तं यत्किमपि साहित्यं नाम तदपि सुप्रसिद्धमेव, पुनस्तदभिधानेऽपि कथं न पौनरुक्त्यप्रसङ्गः ? अतएवैतदुच्यते-यदिदं साहित्यं नाम तदेतावति निःसीमनि समयाध्वनि साहित्यशब्दमात्रेणैव प्रसिद्धम् । न पुनरेतस्य कविकर्मकौशलकाष्ठाधिरूढरमणी यस्याद्यापि कश्चिदपि विपश्चिदयमस्य परमार्थ इति मनाङमात्रमपि विचारपदवीमवतीर्णः । तदद्य सरस्वतीहृदयारविन्दमकरन्दबिन्दुसन्दोहसुन्दराणां सत्कविवचसामन्तरामोदमनोहरत्वेन परिस्फुरदेतत् सहृदयषट्चरणगोचरतां नीयते ।
साहित्यमनयोः शोभाशालितां प्रति काप्यसौ ।
अन्यूनानतिरिक्तत्वमनोहारिण्यवस्थितिः ॥ १७ ।। ___ सहितयोर्भावः साहित्यम् । अनयोः शब्दार्थयोर्या काप्यलौकिकी चेतनचमत्कारकारितायाः कारणम् अवस्थितिविचित्रव विन्यासभङ्गी। कीदृशी-अन्यनानतिरिक्तत्वमनोहारिणी, परस्परस्पधित्वरमणीया। यस्यां द्वयोरेकतरस्यापि न्यूनत्वं निकर्षों न विद्यते नाप्यतिरिक्तत्वमत्कर्षो वास्तीत्यर्थः । ननु च तथाविधं साम्यं द्वयोरुपहतयोरपि संभवतीत्याह-शोभाशालितां प्रति ।