________________
२०
वक्रोक्निजीवितम्
[१.१३-१५ स्वभावव्यतिरेकेण स्वपरिस्पन्दं विना निःस्वभावं वक्तुमभिधातुमेव न युज्यते न शक्यते । वस्तु वाच्यलक्षणम् । कुतःतद्रहितं तेन स्वभावेन रहितं वर्जितं यस्मानिरुपाख्यं प्रसज्यते । उपाख्याया निष्क्रान्तं निरुपाख्यम् । उपाख्या शब्दः, तस्यागोचरभूतमभिधानायोग्यमेव संपद्यते । यस्मात् स्वभावशब्दस्येदृशी व्युत्पत्तिः- भवतोऽस्मादभिधानप्रत्ययाविति भावः, स्वस्यात्मनो भावः स्वभावः । तेन स एव यस्य कस्यचित्पदार्थस्य प्रख्योपाख्यावतारनिबन्धनम्, तेन वर्जितमसत्कल्पं वस्तु शशविषाणप्रायं शब्दज्ञानागोचरतां प्रतिपद्यते । स्वभावयुक्तमेव सर्वथाभिधेयपदवीमवतरतीति शाकटिकवाक्यानामपि सालंकारता प्राप्नोति, स्वभावोक्तियुक्तत्वेन । एतदेव युक्त्यन्तरेण विकल्पयति
शरीरं चेदलंकारः किमलंकुरुतेऽपरम् ।
आत्मैव नात्मनः स्कन्धं क्वचिदप्यधिरोहति ॥१३॥ यस्य कस्यचिद्वर्ण्यमानस्य वस्तुनो वर्णनीयत्वेन स्वभाव एव वर्ण्यशरीरम् । स एव चेदलंकारो यदि विभषणं तत्किमपरं तद्वयतिरिक्तं विद्यते यदलंकुरुते विभूषयति । स्वात्मानमेवालंकरोतीति चेत्तदयुक्तम् अनुपपत्तेः । यस्मादात्मैव नात्मनः स्कन्धं क्वचिदप्यधिरोहति, शरीरमेव शरीरस्य न कुत्रचिदप्यसमधिरोहतीत्यर्थः, स्वात्मनि क्रियाविरोधात् । अन्यच्चाभ्युपगम्यापि व्रमः
भूषणत्वे स्वभावस्य विहिते भूषणान्तरे । भेदावबोधः प्रकटस्तयोरप्रकटोऽथवा ॥१४॥ स्पष्टे सर्वत्र संसृष्टिरस्पष्ट संकरस्ततः ।
अलंकारान्तराणां च विषयो नावशिष्यते ॥१५॥ भषणत्वे स्वभावस्य अलंकारत्वे परिस्पन्दस्य यदा भष