SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ १८ वक्रोक्तिजीवितम् [१.९ यः कश्चिद्विशेषे गणग्रामगरिमा विद्यते स सर्वसामान्येऽपि संभवत्येवेति । यस्मात् वाजिवारणलोहानां काष्ठपाषाणवाससाम् । नारीपुरुषतोयानामन्तरं महदन्तरम् ।। २६ ।। तस्मादेवं विधे विषये सामान्याभिधाय्येव शब्द: सहृदयहृदयहारितां प्रतिपद्यते । तथा चास्मिन् प्रकृते पाठान्तरं सुलभमेव–“एकेन कि न विहितो भवत: स नाम” इति । यत्र च विशेषात्मना वस्तु प्रतिपादयितुमभिमतं तत्र विशेषाभिधायकमेवाभिधानं निब नन्ति कवयः। यथा द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिन: । कला च सा कान्तिमती कलावत स्त्वमस्य लोकस्य च नेत्रकौमुदी ।। २७ ।। अत्र परमेश्वरवाचकशब्दसहस्रसंभवेऽपि कपालिन इति बीभत्सरसालम्बनविभाववाचक: शब्दो जगुप्सास्पदत्वेन प्रयुज्यमान: कामपि वाचकवक्रतां विदधाति । 'संप्रति' 'द्वयं' चेत्यतीव रमणीयम् – यत् किल पूर्वमेका सैव दुर्व्यसनदूषितत्वेन शोचनीया जाता, संप्रति पुनस्त्वया तस्यास्तथाविधदुरध्यवसायसाहायकमिवारब्धमित्युपहस्यते । 'प्रार्थना'- शब्दोऽप्यतितरां रमणीयः. यस्मात् काकतालीययोगेन तत्समागमः कदाचिन्न वाच्यतावहः । प्रार्थना पुनरत्रात्यन्तं कौलीनकलङ्ककारिणी । “सा च' 'त्वं च' इति द्वयोरप्यनुभयमानपरस्परस्पर्धिलावण्यातिशयप्रतिपादनपरत्वेनोपात्तम् । 'कलावतः' 'कान्तिमती' इति च मतुप प्रत्ययेन द्वयोरपि प्रशंसा प्रतीयत इत्येषां प्रत्येक कश्चिदप्यर्थः शब्दान्तराभिधेयतां नोत्सहते । कविविवक्षितविशेषाभिधानक्षमत्वमेव
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy