________________
१.८-९]
प्रथमोन्मेषः
वाच्योsर्थो वाचकः शब्दः प्रसिद्धमिति यद्यपि । तथापि काव्यमार्गेऽस्मिन् परमार्थोऽयमेतयोः ॥ ८ ॥
१३
इति एवंविधं वस्तु प्रसिद्धं प्रतीतम् - यो वाचकः प्रत्यायकः स शब्दः, यो वाच्यश्चाभिधेयः सोऽर्थ इति । ननु च द्योतक - व्यञ्जकावपि शब्दो संभवतः, तदसंग्रहान्नाव्याप्तिः, यस्मादर्थं प्रतीतिकारित्वसामान्यादुपचारात्तावपि वाचकावेव । एवं द्योत्यव्यङ्गययोरप्यर्थं योः प्रत्येयत्वसामान्यादुपचाराद्वाच्यत्वमेव । तस्माद् वाचकत्वं वाच्यत्वं च शब्दार्थयोर्लोके सुप्रसिद्धं यद्यपि लक्षणम्, तथाप्यस्मिन् अलौकिके काव्यमार्गे कविकर्मवर्त्मनि अयमेतयोर्वक्ष्यमाणः परमार्थः किमप्यपूर्वं तत्त्वमित्यर्थः । कीदृशमित्याहशब्दो विवक्षितार्थंकवाचकोऽन्येषु सत्स्वपि । अर्थः सहृदयाह्लादकारिस्वस्पन्दसुन्दरः ॥ ९ ॥
सं शब्दः काव्ये यस्तत्समुचितसमस्तसामग्रीकः । कीदृक्विवक्षितार्थेक वाचकः । विवक्षितो योऽसौ वक्तुमिष्टोऽर्थस्तदेकवाचकः तस्यैकः केवल एव वाचकः । कथम् — अन्येषु सत्स्वपि । अपरेषु तद्वाचकेषु बहुष्वपि विद्यमानेषु । तथा च - सामान्यात्मना वक्तुमभिप्रेतो योऽर्थस्तस्य विशेषाभिधायी शब्दः सम्यग् वाचकतां न प्रतिपद्यते । यथा
कल्लोलवेल्लितदृषत्परुषप्रहारै रत्नान्यमूनि मकराकर माऽवमंस्थाः । किं कौस्तुभेन भवतो विहितो न नाम याञ्चाप्रसारितकरः पुरुषोत्तमोऽपि ॥ २५ ॥
अत्र रत्नसामान्योत्कर्षाभिधानमुपक्रान्तम् | कौस्तुभेनेति रत्नविशेषाभिधायी शब्दस्तद्विशेषोत्कर्षाभिधानमुपसंहरतीति प्रक्रमोपसंहारवैषम्यं न शोभातिशयमावहति । न चैतद्वक्तुं शक्यते