________________
१२
वक्रोक्तिजीवितम्
[१.७
साहित्यविरहोदाहरणं यथा
चारुता वपुरभूषयदासां तामनूननवयौवनयोगः । तं पुनर्मकरकेतनलक्ष्मीस्तां मदो दयितसङ्गमभूषः ॥ २४ ॥ दयितसङ्गमस्तामभूषयदिति वक्तव्ये कीदृशो मदः, दयितसङ्गमो भूषा यस्येति दयितसङ्गमशब्दस्य प्राधान्येनाभिमतस्य समासवृत्तावन्तर्भूतत्वाद् गुणीभावो न तद्विदाह्लादकारी । दीपकालंकारस्य च काव्यशोभाकारित्वेनोपनिबद्धस्य निर्वहणावसरे त्रुटितप्रायत्वात् प्रक्रमभङ्गविहितं सरसहृदयवैरस्यमनिवार्यम् । 'दयितसङ्गतिरेनम्' इति पाठान्तरं सुलभमेव ।
द्वयोरध्येतयोरुदाहरणयोः प्राधान्येन प्रत्येकमेकतरस्य साहित्यविरहो व्याख्यातः । परमार्थतः पुनरुभयोरप्येकतरस्य साहित्यविरहोऽन्यतरस्यापि पर्यवस्यति । तथा चार्थः समर्थवाचकासद्भावे स्वात्मना स्फुरन्नपि मृतकल्प एवावतिष्ठते । शब्दोऽपि वाक्योप - योगिवाच्यासंभवे वाच्यान्तरवाचकः सन् वाक्यस्य व्याधिभूतः प्रतिभातीत्यलमतिप्रसङ्गेन ।
प्रकृतं तु । कीदृशे बन्धे - वक्रकविव्यापारशालिनि । वक्रो योऽसौ शास्त्रादिप्रसिद्धशब्दार्थोपनिबन्धव्यतिरेकी षट्प्रकारकताविशिष्ट: कविव्यापारस्तत्क्रियाक्रमस्तेन शालते श्लाघते यस्तस्मिन् । एवमपि कष्टकल्पनोपहतेऽपि प्रसिद्धव्यतिरेकित्वमस्तीत्याह - तद्विदाह्लादकारिणि । तदिति काव्यपरामर्शः तद्विदन्तीति तद्विदस्तज्ज्ञास्तेषामाह्लादमानन्दं करोति यस्तस्मिन् तद्विदाह्लादकारिणि बन्धे व्यवस्थितौ । वक्रता प्रकारांस्तद्विदाह्लादकारित्वं च प्रत्येकं यथावसरमेवोदाहरिष्यति ।
एवं काव्यस्य सामान्यलक्षणे विहिते विशेषलक्षणमुपक्रमते । तत्र शब्दार्थयोस्तावत्स्वरूपं निरूपयति