________________
१.७]
प्रथमोन्मेष:
लोकलोभनीयलावण्यसंपत्प्रतिपादनपराणि परस्परस्पर्धीन्यतिरमणीयान्युपनिबद्धानि कमपि काव्यच्छायातिशयं पुष्णन्ति । मरणशरणं बान्धवजनमिति पुनरेतेषां न कलामात्रमपि स्पर्धितुमर्हतीति न तद्विदाह्लादकारि । बहुषु च रमणीयेष्वेकवाक्योपयोगिषु युगपत् प्रतिभासपदवीमवतरत्सु वाक्यार्थ परिपूरणार्थं तत्प्रतिमं प्राप्तुमपरं प्रयत्नेन प्रतिभा प्रसाद्यते । तथा चास्मिन्नेव प्रस्तुतवस्तुसब्रह्मचारिवस्त्वन्तरमपि सुप्रापमेव — "विधिमपि विपन्नाद्भुतविधिम् " इति । प्रथमप्रतिभातपदार्थप्रतिनिधिपदार्थान्तरासंभवे सुकुमारतरापूर्वसमर्पणेन कामपि काव्यच्छायामुन्मीलयन्ति
कवयः । यथा
रुद्रास्तुलनं स्वकण्ठविपिनच्छेदो हरेर्वासनं कारावेश्मनि पुष्पकापहरणम् ॥ २२ ॥
―――――――
११
इत्युपनिबद्धय पूर्वोपनिबद्धपदार्थानुरूपवस्त्वन्तरासंभवादपूर्वमेव " यस्येदृशाः केलयः" इति विन्यस्तम् येनान्येऽपि कामपि कमनीयतामनीयन्त । यथा च
तद्वक्त्रेन्दु विलोकनेन दिवसो नीतः प्रदोषस्तथा तद्गोष्ठचैव निशापि मन्मथकृतोत्सा हैस्तदङ्गार्पणैः । तां संप्रत्यपि मार्गदत्तनयनां द्रष्टुं प्रवृत्तस्य मे बद्धोत्कण्ठमिद मनः किम् ॥ २३ ॥
-
इति संप्रत्यपि तामेवंविधां वीक्षितुं प्रवृत्तस्य मम मनः किमिति बद्धोत्कण्ठमिति परिसमाप्तेऽपि तथाविधो वस्तु विन्यासो विहितः ' अथवा प्रेमासमाप्तोत्सवम्" इति येन पूर्वेषां जीवितमिवार्पितम् ।
यद्यपि द्वयोरप्येतयोस्तत्प्राधान्येनैव वाक्यार्थोपनिबन्ध:, तथापि कविप्रतिभाप्रौढिरेव प्राधान्येनावतिष्ठते । शब्दस्यापि शब्दान्तरेण