________________
[१.७
वक्रोक्तिजीवितम् लीलाए कुवलअं कुवलअं व सीसे समुव्वहंतेण । सेसेण सेसपुरिसाणं पुरिसआरो समुवसिओ ।।२०।। लीलया कुवलयं कुवलयमिव शीर्षे समद्वहता।
शेषेण शेषपुरुषाणां पुरुषकारः समुद्धसितः ।। अत्राप्यप्रस्तुतप्रगंसोपमालक्षणवाच्यालकारवैचित्र्यविहिता हेलामात्रविरचितयमकानुप्रासहारिणी समर्पकत्वमुभगा कापि काव्यच्छाया सहृदयहृदयमाह्लादयति ।
द्विवचनेनात्र वाच्यवाचकजातिद्वित्वमभिधीयते । व्यक्तिद्विस्वाभिधाने पुनरेकपदव्यवस्थितयोरपि काव्यत्वं स्यादित्याहबन्धे व्यवस्थितौ । बन्धो वाक्यविन्यासः तत्र व्यवस्थितौ विशेषेण लावण्यादिगुणालंकारशोभिना संनिवेशेन कृतावस्थानौ । सहितावित्यत्रापि यथायक्ति सजातीया पेक्षया शब्दस्य शब्दान्तरेण वाच्यस्य वाच्यान्तरेण च साहित्यं परस्परस्पर्धित्वलक्षणमेव विवक्षितम् । अन्यथा तद्विदाह्लादकारित्वहानि: प्रसज्येत । यथा
असारं संसारं परिमपितरत्नं त्रिभुवनं निरालोकं लोक मरणशरणं बान्धवजनम् । अदर्प कन्दर्प जननयननिर्माणमफलं
जगज्जीर्णारण्यं कथमसि विधातु व्यवसितः ॥२१॥ अत्र किल कुत्रचित्प्रवन्धे कश्चित्कापालिक: कामपि कामिनी व्यापादयितुमध्यवसितः सन्नेव मभिधीयते यदपगतसार: ससारः, हृतरत्नसर्वस्वं त्रैलोक्यम्, आलोकनीयकमनीयवस्तुवर्जितो जीवलोकः, सकललोकलोचननिर्माणं निष्फलप्रायम्, त्रिभुवन विजयित्वदर्पविहीनः कन्दर्पः, जगज्जीारण्यकल्पमनया भवतीति किं त्वमेवंविधमकरणीयं कर्तुं व्यवसित इति । एतस्मिन् श्लोके महावाक्यकल्पे वाक्यान्तराण्यवान्तरवाक्यसदशानि तस्या: सकल