SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ प्रथमोन्मेषः एतयोरन्तरं सहृदयसंवेद्य मिति तैरेव विचारणीयम् । तस्मात् स्थितमेतत्-न शब्दस्यैव रमणीयताविशिष्टस्य केवलस्य काव्यत्वम्, नाप्यर्थस्येति । तदिदमुक्तम् - रूपकादिरलंकारस्तस्यान्य बहुधोदितः । न कान्तमपि निर्भूषं विभाति वनितामुखम् ॥१५॥ रूपकादिमलंकारं बाह्यमाचक्षते परे । सुपां तिङां च व्युत्पत्तिं वाचां वाञ्छन्त्यलंकृतिम् ।।१६।। तदेतदाहुः सौशब्दयं नार्थव्युत्पत्तिरीदृशी । शब्दाभिधेयालंकारभेदादिष्टं द्वयं तु नः ॥१७॥ तेन शब्दाथों द्वौ संमिलितौ काव्यमिति स्थितम् । एवमवस्थापिते द्वयोः काव्यत्वे कदाचिदेकस्य मनाङ्मात्रन्यूनतायां सत्यां काव्यव्यवहारः प्रवर्ततेत्याह- सहिताविति । सहितौ सहितभावेन साहित्येनावस्थितौ। ननु च वाच्यवाचकसंबन्धस्य विद्यमानत्वादेतयोर्न कथंचिदपि साहित्यविरहः, सत्यमेतत् । किन्तु विशिष्टमेवेह साहित्यमभिप्रेतम्। कीदृशम् ?- वक्रता विचित्रगुणालंकारसंपदां परस्परस्पर्धाधिरोहः । तेन समसर्वगुणौ सन्तौ सुहृदाविव सङ्गतौ । परस्परस्य शोभायै शब्दाथौं भवतो यथा ॥१८॥ ततोऽरुणपरिस्पन्दमन्दीकृतवपुः शशी। दभ्रे कानपरिक्षामकामिनीगण्डपाण्डुताम् ॥ १९ ॥ अत्रारुणपरिस्पन्दमन्दीकृतवपुषः शशिन: कामपरिक्षामवत्तेः कामिनीकपोलफलकस्य च पाण्डुत्वसाम्यसमर्थनादर्थालंकारपरिपोषः शोभातिशयमावहति । वक्ष्यमाणवर्णविन्यासवक्रतालक्षणः शब्दालंकारोऽप्यतितरां रमणीयः । वर्णविन्यास विच्छित्तिविहिता लावण्यलक्षणगुण संपदस्त्येव । यथा च
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy