________________
वक्रोक्तिजीवितम्
[१.७ इति। विदधतीति विपूर्वो दधाति: करोत्यर्थे वर्तते । स च करोत्यर्थोऽत्र न सुस्पष्टसमन्वयः, प्रकाशस्वाभाव्यं न कुर्वन्तीति । प्रकाशस्वाभाव्य-शब्दोऽपि चिन्त्य एव। प्रकाश: स्वभावो यस्यासौ प्रकाशस्वभावः, तस्य भाव इति भावप्रत्यये विहिते पूर्वपदस्य वृद्धिः प्राप्नोति । अथ स्वभावस्य भाव: स्वाभाव्यमित्यत्रापि भावप्रत्ययान्ताद्भावप्रत्ययो न प्रचुरप्रयोगार्हः। तथा च प्रकाशश्चासौ स्वाभाव्यं चेति विशेषणसमासोऽपि न समीचीनः । तृतीये च पादेऽत्यन्तासमर्पकसमासभूयस्त्ववैशसं न तद्विदाह्लादकारितामावहति । रविव्यापार इति रवि-शब्दस्य प्राधान्येनाभिमतस्य समासे गुणीभावो न विकल्पितः, पाठान्तरस्य ‘रवेः' इति संभवात् ।
ननु वस्तुमात्रस्याप्यलंकारशन्यतया कथं तद्विदाह्लादकारित्वमिति चेत्तन्न; यस्मादलंकारेणाप्रस्तुतप्रशंसालक्षणेनान्यापदेशतया स्फुरितमेव कविचेतसि प्रथमं च प्रतिभाप्रतिभासमानमघटितपाषाणशकलकल्पमणिप्रख्यमेव वस्तु विदग्धकविविरचितवक्रवाक्योपारूढं शाणोल्लीढमणिमनोहरतया तद्विदाह्लादकारिकाव्यत्वमधिरोहति । तथा चैकस्मिन्नेव वस्तुन्यवहितानवहितकविद्वितयविरचितं वाक्यद्वयमिदं महदन्तरमावेदयति
मानिनीजनविलोचनपातानुष्णबाष्पकलुषाननुगृह्णन् । मन्दमन्दमुदित: प्रययौ खं
भीतभीत इव शीतमयख: ।। १३॥ क्रमादेकद्वित्रिप्रभृतिपरिपाटी: प्रकटयन् कला:स्वैरं स्वैरं नवकमलकन्दाङकुररुच: । पुरन्ध्रीणां प्रेयोविरहदहनोद्दीपितदशां कटाक्षेभ्यो बिभ्यन्निभृत इव चन्द्रोऽभ्युदयते ।। १४ ।।