SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ १.७] प्रथमोन्मेष: प्रतिभादारिद्र्य दैन्यादतिस्वल्पमुभाषितेन कविना वर्णसावर्ण्यरम्यतामात्रमत्रोदितम्, न पुनर्वाच्यवैचित्र्यकणिका काचिदप्यस्ति । यत्किल नूतनतारुण्यतरङ्गितलावण्यदभकान्तेः कान्ताया: कामयमानेन केनचिदेवमु च्यते - यदि तरुणि त्वं रमणमन्दिरं व्रजसि तत्किं त्वदीयं परिसरणं रणरणकमकारणं मम करोतीत्यतिग्राम्येयमुक्तिः । किंव, न अकारणम्, यतस्तस्यास्तदनादरेण गमने तदनुरक्तान्तःकरणस्य विरहविधुरताना कातरता कारणं रणरणकस्य । यदि वा परिसरणस्य मया किमपराद्धमित्यकारणतासमर्पकम् एतदप्यतिग्राम्यतरम् । संबोधनानि च बहूनि मुनिप्रणीतस्तोत्रामन्त्रणकल्पानि न कांचिदपि तद्विदाह्लादकारितां पुष्णन्तीति यत्किचिदेतत् । वस्तुमात्रं च शब्दशोभा तिशयशून्यं न काव्यव्यपदेशमर्हति । यथा , प्रक शस्वाभाव्यं विदधति न भावास्तमसि यतथा नैते ते स्युर्यदि किल तथा यत्र न कथम् । गुणाध्यासाभ्यासव्यसनदृढदीक्षागुरुगुणो रविव्यापारोऽयं किमथ सदृशं तस्य महसः ॥। ११ ॥ अत्र हि शुष्कतकं वाक्यवासनाधिवासितचेतसा प्रतिभाप्रतिभातमात्रमेव वस्तु व्यसनितया कविना केवलमुपनिबद्धम् । न पुवर्वाचकवक्रता विच्छित्तिलवोऽपि लक्ष्यते । यस्मात्तर्कवाक्यशय्यैव शरीरमस्य श्लोकस्य । तथा च --- तमोव्यतिरिक्ताः पदार्था धर्मिणः, प्रकाशस्वभावा न भवन्तीति साध्यम्, तमस्यतथाभूतत्वादिति हेतुः । दृष्टान्तस्तर्हि कथं न दर्शितः, तर्कन्यायस्यैव चेतसि प्रतिभासमानत्वात् । तथोच्यते तद्भावहेतुभावी हि दृष्टान्ते तदवेदिनः । ख्याप्यते विदुषां वाच्यो हेतुरेव हि केवल: ।। १२ ।।
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy