________________
वक्रोक्तिजीवितम्
[१.७ तदुपायतया। तदिति काव्यं परामृश्यते । तस्योपायस्तदुपायस्तम्य भावस्तदुपायता तया हेतुभूतया। यस्मादेवंविधो विवेकः: काव्यव्युत्पत्त्युपायतां प्रतिपद्यते । दृश्यते च समुदायान्तःपातिनामसन्यभूतानामपि व्युत्पत्तिनिमित्तमपोद्धृत्य विवेचनम् । यथा – पदान्तर्भूतयोः प्रकृतिप्रत्यययोक्यिान्तभूतानां पदानां चेति । यद्येवससत्यभूतोऽप्यपोद्धारस्तदुपायतया क्रियते तत् किं पुन: सत्यमित्याह - तत्त्वं सालंकारस्य काव्यता। तदयमत्र परमार्थः -- पालंकारस्यालंकरणसहितस्य सकलस्य निरस्तावयवस्य सत: समुदायस्य काव्यता कविकर्मत्वम् । तेनालंकृतस्य काव्यत्वमिति स्थितम्. न पुन: काव्यस्यालंकारयोग इति ।
सालंकारस्य काव्यतेति संमुग्धतया किंचित् काव्यस्वरूपं सूत्रितम् निपुणं पुनर्न निश्चितम् । किंलक्षणं वस्तु काव्यव्यपदेशभाग भवतीत्याह
शब्दार्थों सहितौ वक्रकविव्यापारशालिनि ।
बन्धे व्यवस्थितौ काव्यं तद्विदाह्लादकारिणि ॥७॥ शब्दाथौं काव्यं वाचको वाच्यं चेति द्वौ भमिलितो काव्यम् । द्वावेकमिति विचित्रवोक्तिः । तेन यत्केषांचिन्मतं कविकौशलकल्पितकमनीयतातिशयः शब्द एव केवलं काव्यमिति केषांचिद् वाच्यमेव रचनावैचित्यचमत्कारकारि काव्यमिति, पक्षद्वयमपि निरस्तं भवति । यस्माद् द्वयोरपि प्रत्येकं प्रतितिलमिव तैलं तद्विदाह्लादकारित्वं वर्तते, न पुनरेकस्मिन् । यथा
भण तरुणि रमणमन्दिरमानन्दस्यन्दिमुन्दरेन्दुमुखि । यदि सल्लीलोल्लापिनि गच्छसि तत् किं त्वदीयं मे ।। ९ ।। अणणुरणन्मणिमेखलमविरतशिजाणमञ्जुमजीरम् । परिसरणमरुणचरणे रणरणकमकारणं कुरुते ॥१० ।।