________________
प्रथमान्मषः
१.६]
चमत्कारो वितन्यते चमत्कृतिविस्तार्यते, ह्लादः पुनः पुनः क्रियत इत्यर्थः । केन – काव्यामृतरसेन । काव्यमेवामृतं तस्य रसस्तदास्वादस्तदनुभवस्तेन । क्वेत्यभिदधाति – अन्तश्चेतसि । कस्य – तद्विदाम् । तं विदन्ति जानन्तीति तद्विदस्तज्ज्ञास्तेषाम् । कथम् - चतुर्वर्गफलास्वादमष्यतिक्रम्य । चतुर्वर्गस्य धर्मादे: फलं तदुपभोगस्तस्यास्वादस्तदनुभवस्तमपि प्रसिद्धातिशयमतिक्रम्य विजित्य पस्पशप्रायं संपाद्य । तदयमत्राभिप्रायः ... योऽसौ चतुर्वर्गफलास्वाद: प्रकृष्टपुरुषार्थतया सर्वशास्त्रप्रयोजनत्वेन प्रसिद्धः सोऽप्यस्य काव्यामृतचर्वणचमत्कारकलामात्रस्या पि न कामपि साम्यकलनां कर्तुमर्हतीति । दुःश्रव-दुर्भण-दुरधिगमत्वादिदोषदुष्ट त्वादध्ययनावसरे दुःसहदुःख दायी शास्त्रसन्दर्भस्तत्कालकल्पितकमनीयचमत्कृते: काव्यस्य न कथंचिदपि स्पर्धामधिरोहतीत्येतदप्यर्थतोऽभिहितं भवति ।
कटुकौषधवच्छास्त्रमविद्याव्याधिनाशनम् । आह्लाद्यमृतवत्काव्यमविवेकगदापहम् ।। ७ ।। आयत्यां च तदात्वे च रसनिस्यन्दसुन्दरम् ।
येन संपद्यते काव्यं तदिदानी विचार्यते ।।८।। इत्यन्तरश्लोको।
अलंकृतिरलंकार्यमपोद्धृत्य विवेच्यते ।
तदुपायतया तत्त्वं सालंकारस्य काव्यता ॥६॥ अलंकृतिरलंकरणम् अलंक्रियते ययेति विगृह्य । सा विवेच्यते विचार्यते । यच्चालंकार्यमलंकरणीयं वाचकरूपं वाच्यरूपं च तदपि विवेच्यते। तयोः सामान्यविशेषलक्षणद्वारेण स्वरूपनिरूपणं क्रियते । कथम् --- अपोद्धत्य । निष्कृष्य पृथक् पृथगवस्थाप्य, यत्र समुदायरूपे तयोरन्तर्भावस्तस्माद्विभज्य । केन हेतुना