________________
वक्रोक्तिजीवितम्
[१.४-५ प्रभवन्तीत्येतदर्थमेव तद्वयुत्पत्तये व्यतीतसच्चरितराजचरितं तन्निदर्शनाय निबध्नन्ति कवयः । तदेवं शास्त्रातिरिक्तमस्त्येव प्रगुणं प्रयोजनं काव्यबन्धस्य ।
मुख्यं पुरुषार्थसिद्धिलक्षणं प्रयोजनमास्तां तावत् अन्यदपि लोकयात्राप्रवर्तननिमित्तं भृत्यसुहृत्स्वाम्यादिसमावर्जनमनेन विना सम्यङ् न संभवतीत्याह
व्यवहारपरिस्पन्दसौन्दर्य व्यवहारिभिः ।
सत्काव्याधिगमादेव नूतनौचित्यमाप्यते ॥४॥ व्यवहारो लोकवृत्तं तस्य परिस्पन्दो व्यापारः क्रियाक्रमलक्षणस्तस्य सौन्दर्य रामणीयकं तद्व्यवहारिभिर्व्यवहर्तृभिः सत्काव्याधिगमादेव कमनीयकाव्यपरिज्ञानादेव नान्यस्माद् आप्यते लभ्यत इत्यर्थः। कीदृशं तत्सौन्दर्यम् – नूतनौचित्यम् । नतनमभिनवमलौकिकमौचित्यमुचितभावो यस्य । तदिदमुक्तं भवति — महतां हि राजादीनां व्यवहारे वर्ण्यमाने तदङ्गभूता: सर्वे मुख्यामात्यप्रभृतयः समुचितप्रातिस्विककर्तव्यव्यवहारनिपुणतया निबध्यमाना: सकलव्यवहारिवृत्तोपदेशतामापद्यन्ते । ततः सर्वः क्वचित्कमनीयकाव्ये कृतश्रमः समासादितव्यवहारपरिस्पन्दसौन्दर्यातिशयः श्लाघनीयफलभाग भवतीति । __योऽसौ चतुर्वर्गलक्षण: पुरुषार्थस्तदुपार्जनविषयव्युत्पत्तिकारणतया काव्यस्य पारंपर्येण प्रयोजनमित्याम्नातः, सोऽपि समयान्तरभावितया तदुपभोगस्य तत्फलभताह्लादकारित्वेन तत्कालमेव पर्यवस्यति । ततस्तदतिरिक्तं किमपि सहृदयहृदयसंवादसुभगं तदात्वरमणीयं प्रयोजनान्तरमभिधातुमाह
चतुर्वर्गफलास्वादमप्यतिक्रम्य तद्विदाम् । काव्यामृतरसेनान्तश्चमत्कारो वितन्यते ॥५॥