________________
१.३]
प्रथमोन्मेषः
वैचित्र्यसिद्धिः । अलंकार - शब्दः शरीरस्य शोभातिशयकारित्वामुख्यतया कटकादिषु वर्तते, तत्कारित्वसामान्यादुपचारादुपमादिषु, तद्वदेव च तत्सदृशेष गणेष तथैव च तदभिधायिनि ग्रन्थे । शब्दार्थयोरेकयोगक्षेमत्वादैक्येन व्यवहारः, यथा गौरिति शब्दः गौरित्यर्थ इति । तदयमर्थः – ग्रन्थस्या लंकार इत्यभिधानम्, उपमादिप्रमेय जातमभिधेयम्, उक्तरूपवैचित्र्यसिद्धिः प्रयोजनमिति ।
३
एवमलंकारस्यास्य प्रयोजनमस्तीति स्थापितेऽपि तदलंकार्यस्य काव्यस्य प्रयोजनं विना सदपि तदपार्थकमित्याह -
धर्मादिसाधनोपायः सुकुमारक्रमोदितः ।
काव्यबन्धोऽभिजातानां हृदयाह्लादकारकः ॥ ३ ॥ हृदयाह्लादकारकश्चित्तानन्दजनकः काव्यबन्धः सर्गबन्धादिभवतीति संबन्धः । कस्येत्याकाङ्क्षायामाह - अभिजातानाम् । अभिजाताः खलु राजपुत्रादयो धर्माद्यपेयार्थिनो विजिगीषवः क्लेशभीरवश्च, सुकुमाराशयत्वात्तेषाम् । तथा सत्यपि तदाह्लादकत्वे काव्यबन्धस्य क्रीडनकादिप्रख्यता प्राप्नोतीत्यभिधत्ते धर्मादिसाधनोपायः । धर्मादेरुपेयस्य चतुर्वर्गस्य साधने संपादने तदुपदेशरूपत्वादुपायस्तत्प्राप्तिनिमित्तम् । तथाविध पुरुषार्थोपदेशपरैरपरैरपि शास्त्रैः किमपराद्धमित्यभिधीयते - सुकुमारक्रमोदितः । सुकुमारः सुन्दरः हृदयहारी क्रमः परिपाटीविन्यासस्तेनोदितः कथितः सन् । अभिजातानामाह्लादकत्वे सति प्रवर्तकत्वात्काव्यबन्धो धर्मादिप्राप्त्युपायतां प्रतिपद्यते । शास्त्रेषु पुनः कठोरक्रमाभिहितत्वाद् धर्माद्युपदेशो दुरवगाहः । तथाविधे विषये विद्यमा नोऽप्यकिंचित्कर एव । राजपुत्राः खलु समासादितस्वविभवाः समस्त जगतीव्यवस्थाकारितां प्रतिपद्यमानाः श्लाघ्योपदेश शन्यतया स्वतन्त्राः सन्तः समुचितसकलव्यवहारोच्छेदं प्रवर्तयितुं
-