SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ १.९] प्रथमोन्मेष वाचकत्वलक्षणम् । यस्मात्प्रतिभायां तत्कालोल्लिखितेन केनचित्परिस्पन्देन परिस्फुरन्तः पदार्थाः प्रकृतप्रस्तावसमुचितेन केनचिदुत्कर्षेण वा समाच्छादितस्वभावाः सन्तो विवक्षाविधेयत्वेनाभिधेयतापदवीमवतरन्तस्तथाविधविशेष प्रतिपादनसमर्थेनाभिधानेनाभिधीयमानाश्चेतश्चमत्कारि'तामापद्यन्ते । यथा संरम्भः करिकीटमेघशकलोद्देशेन सिंहस्य य: सर्वस्यैव स जातिमात्रविहितो हेवाकलेश: किल । इत्याशाद्विरदक्षयाम्बदघटाबन्धेऽप्यसंरब्धवान योऽसौ कुत्र चमत्कृतेरतिशयं यात्वम्बिकाकेसरी ॥२८॥ अत्र करिणां 'कीट'-व्यपदेशेन तिरस्कारः, तोयदानां च 'शकल'शब्दाभिधानेनानादर:, 'सर्वस्य' इति यस्य कस्यचित्तुच्छतरप्रायस्येत्यवहेला, जातेश्च ‘मात्र'-शब्दविशिष्टत्वेनावलेपः, हेवाकस्य 'लेश'-शब्दाभिधानेनाल्पताप्रतिपत्तिरित्यते विवक्षितार्थंकवाचकत्वं द्योतयन्ति । 'घटाबन्ध'-शब्दश्च प्रस्तुतमहत्त्वप्रतिपादनपरत्वेनोपात्तस्तन्निबन्धनतां प्रतिपद्यते। विशेषाभिधानाकाक्षिण: पुन: पदार्थस्वरूपस्य तत्प्रतिपादनपरविशेषणशन्यतया शोभापरिहाणिरुत्प द्यते । तथा यत्रा नल्लिखिताख्यमेव निखिलं निर्माणमेतद्विधेरुत्कर्षप्रतियोगिकल्पनमपि न्यक्कारकोटि: परा। जाता प्राणभृतां मनोरथगतीरुल्लङ्घय यत्संपद स्तस्याभासमणीकृताश्मसु मणेरश्मत्वमेवोचितम् ॥ २९॥ अत्र 'आभास'-शब्दः स्वयमेव मात्रादिविशिष्टत्वमभिलषल्लक्ष्यते । पाठान्तरम् - 'छायामात्रमणीकृताश्मसु मणेस्तस्याश्मतैवोचिता' इति । एतच्च वाचकवक्रताप्रकारस्वरूपनिरूपणावसरे प्रतिपदं प्रकटीभविष्यतीत्यलमतिप्रसङ्गेन ।
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy