________________
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० ७-८.] कश्चिदाशिषं प्रयुङ्के- गी:- वाणी, धी:- बुद्धिः, श्री:- लक्ष्मीश्च, स्तात्भवतु ।
"अहरहर्नयमानो, गामश्वं पुरुष पशुम् । वैवस्वतो न तृप्यति, सुराया इव दुर्मदी।"
इत्यादी विनाऽपि चं चार्थो द्योत्यत इति गीरादीनां समुच्चयो गम्यते । आद्यस्य च्छन्दसः श्रीरिति नामकथनेनाशीर्वादार्थकस्यवोदाहरणस्य च दानेनाचार्यस्य माङ्गलिकत्वं व्यक्तम्, सहि सर्वेषां व्याख्यात-श्रोतुणामनायासेन मङ्गलार्थमेवैवं छन्दोनामोदाहरणं च प्रयुक्तवान् । अस्य चैकाक्षरपादत्वेन तस्याप्यक्षरस्य गुरुरूपत्वेन नियतत्वादन्येषां प्रभेदानामसम्भव एवेत्यस्यां जातावेकमेव च्छन्दः । उदाहरणेषु यथाकथंचिच्छन्द नाम्नः समावेशनमिति रीतिः ॥ अ० २, सू०-६ ॥
अत्युक्तायां गौ स्त्री ॥ ७ ॥ यथा-भ्रात-, दृष्टा । इष्टा, सा खी।। ७. १. ॥ पमित्येके ।। ७. १. ॥ द्वयक्षरात्मकपादायामत्युक्तायां छन्दोविशेषमाह- 'अत्युक्तायां गौ स्त्री' इति- गाविति गुरुद्वयरूपः पादो यस्याः सा-स्त्री, अत्युक्ताजाति विशेष इत्यर्थः । उदाहरति- यथा-भ्रातरिति- हे भ्रातः ! इष्टा- इच्छाविषयीभूता, सा-पूर्व चचिंता स्त्री, दृष्टा- लोचनविषयीकृता । अत्र चतुर्वपि पादेषु गुरुद्वयमिति लक्षणसमन्वयः । अस्यैव च्छन्दसो मतान्तरानुसारं नामान्तरमाह- पद्ममित्येके इति- एके आचार्या गुरुद्वयात्मकपादं छन्दः पद्ममित्यादुः । प्राकृतपिङ्गले च गुरुद्वयपादस्य 'काम' इति नामोक्तम्, तथा च नात्रकरूपा आचार्यपरम्परा, यथाशास्त्रं संज्ञाभेदेऽपि जाति विषये न विवादः ।। अ० २, सू०-७॥
लौ मदः ॥ ८ ॥ जय, जिन ॥ जित-, मद! ॥ ८.१ ॥ पुष्पमिति कश्चित् ॥ ८.१॥
अत्युक्ताया एव द्वितीयं विशेषमाह- "लौ मदः" इति- लघुद्वयरूपो द्वयक्षरः पादो यस्य तत् 'मद' इत्याख्यायत इत्यर्थः उदाहरति-जय, जिनेतिहे जितमद !- वशीकृताहकार ! जिन ! [त्वं] जय- सर्वोत्कर्षेण वर्तस्वेत्यर्थः,