________________
[अ० २, सू० - ११.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते
५५
'जितमद:' इति पाठेतु - हे जिन ! त्वं जितमदः सन् जयेत्यर्थः । अस्यापि नामान्तरमाह - पुष्पमिति कश्चिदिति । प्राकृतपिङ्गले च मध्विति नाम लघुद्वयरूपपादस्य छन्दसः ॥ अ० २. सू० -८ ॥
ग्लो दुःखम् ॥६॥
यथा - कस्य, नात्र । दुःख -, मस्ति ॥ ६. १ ॥
अत्युक्तायास्तृतीयं प्रभेदमाह - "ग्लौ दुःखम्" इति - एको गुरुद्वितीयो लघुरिति अक्षरद्वयरूपः पादो यस्य तच्छन्दो दुःखमित्याख्यायत इत्यर्थः । उदाहरति- यथा - "कस्य, नात्र । दुःखमस्ति ” इति - प्रतिपादमाद्यो वर्णो गुरुद्वतीयो लघुः । अत्र - संसारे, कस्य - जनस्य, दुःखं- प्रतिकूलवेदनीयं कर्मफलं; न, अस्ति, अपि तु सर्वस्य तादृशफलं भवत्येवेत्यर्थः, तात्त्विकदृष्ट्या विचारे तु अत्र यत्किञ्चिदनुमूयते तत् सर्वं दुःखमेवेति ॥ अ० २, सू०-६ ॥
गौ सुखम् ॥१०॥
यथा - जिनः, स वः । क्रियात् सुखम् ॥ १०१ ॥
चतुर्थं प्रभेदमाह - "लगौसुखम् " इति प्रथमो लघुद्वितीयो गुरुरिति लघुगुरुरूपाक्षरद्वयपादवत् छन्दः सुखमिति कथ्यत इत्यर्थः । यथा- जिनः, स वः । क्रियात्, सुखम् ॥ इति - अत्र प्रतिपादं प्रथमो लघुर्द्वितीयो गुरुरिति लक्षणसमन्वयः । अर्थश्च - स - प्रसिद्धानुभावः, जिनः, वः- • युष्माकं सुखंअनुकूलवेदनीयं कर्मफलं क्रियात्- विदध्यात् इति । इत्येवमत्युक्तायाः ४ चत्वारो भेदा व्याख्याताः ॥ अ० २, सू० - १० ॥
"
मध्यायां मो नारी ॥११॥
यथा - निःसारे, संसारे । सारं कि, स्यान्नारी ॥। ११.१ ॥
अथ तृतीयाया मध्यायाः प्रकारानुपक्रमते- मध्यायां मो नारीतिमगणरूपमक्षरत्रयं पादे यस्य तन्नारीनामकं छन्दो मध्यायां जातौ प्रथमो भेदो वेदितव्य इत्यर्थः । उदाहरति- यथा- 'निःसारे, संसारे । सारं कि,