________________
५३
[अ० २, सू० ६.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते विशत्यक्षरा-विकृतिः, चतुर्विशत्यक्षरा- संकृतिः, पञ्चविंशत्यक्षरा- अमिकृतिः, [ एवं ] षड्विंशत्यक्षरा- उत्कृतिः, इति [ यावत् ] ॥५॥
विशत्यादिषड्विंशत्यवसानाक्षरपादानां छन्दसां जातीः संक्षेपेणाहकृतिःप्राविसमभ्युदश्चेति, क्वचित् 'प्रावि' स्थाने 'प्राङ्वि' इति पाठः 'कृतिः' इति चान्ते। विवृणोति-'प्र-आङ्' इत्यादिना, विंशत्यक्षरपादा जातिः कृतिः, सवैकैकाक्षरवृद्धपादा क्रमश:- 'प्र-आङ्-वि-सम्-अभि-उद्' इत्येतैः षड्भिरुपसर्गर्युक्तेन कृतिशब्देनोच्यन्ते । तथा च योऽर्थः पर्यवसन्नस्तं विविच्य दर्शयतिविशत्यक्षरा-कृतिरित्यादिना-विंशतिरक्षराणि पादे यस्याः सा विंशत्यक्षरा जातिः, कृतिरित्याख्यायते, एकविंशतिरक्षराणि पादे यस्याः सा- प्रकृतिरित्युच्यते जातिः, द्वाविंशतिरक्षराणि पादे यस्याः सा- आकृतिर्जातिः, त्रयोविंशतिरक्षराणि पादे यस्याः सा- विकृतिनाम्नी छन्दोजातिः, चतुर्विंशतिरक्षराणि यस्याः पादे सा-संकृतिरिति, अत्र समः परत्वेऽपि भूषणाद्यर्थाविवक्षया नस्सट, पञ्चविंशतिरक्षराणि यस्याः पादे सा-अभिकृतिर्जातिः, एवं षड्विंशतिरक्षराणि यस्याः पादे सा- जातिरुत्कृति म । इतिशब्दः प्रकृतच्छन्दोजातिवर्णनपूत्तिद्योतकः । अ० २, सू०-५॥ अथासामेव जातीनामुपयोगिनो मेदानाह
उक्तायां गः श्रीः ॥६॥ उक्तायां जातो गुरुरेकाक्षरः पादः, स च श्रीनामा । यथा-गी-,ः । श्रीः, स्तात् ॥६-१॥ ___ अथ प्रतिजातिच्छन्दोभेदानुदाहर्तु सूत्राण्यवतारयति- अथासामेव जातीनामुपयोगिनो भेदानाहेति- अतः परमुक्ताद्युत्कृत्यन्तानां कथितानां छन्दोजातीनामुपयोगिनः-घटकतया समवेतान्, भेदान्-विशेषान्, आह-अग्रिमः सूत्रः कथयतीत्यर्थः । तत्र प्रथमोपस्थितामेकाक्षरपादामुक्तामेवाह- उक्तायां गः श्रीः इति । विवृणोति- उक्तायां जाताविति- उक्तासंज्ञिकायामेकाक्षरपादच्छन्दोजातो एको गुरुरूप एव पादः, तच्च छन्दः श्रीर्नामेति तदर्थः । उदाहरति- यया- "गी-झुः। श्रीः, स्तात् ॥” इति- कस्मैचित