SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ५२ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० ४-५.] अत्युक्ता-मध्या-प्रतिष्ठा-सुप्रतिष्ठा-गायत्री-उष्णिग-अनुष्टुब-बृहतो-पङ्क्ति त्रिष्टुब-जगती अतिजगती-शक्करी अतिशक्करी-अष्टि-अत्यष्टि धृति-अतिधृ. तयः-एकै कवृद्धाः ।।४।। उक्तात एकंकाक्षरवृद्धपादा अत्युक्तादयः । तत्र व्यक्षरा- अत्युक्ता जातिः, ध्यक्षरा- मध्या, चतुरक्षरा-प्रतिष्ठा, एवं- यावदेकोनविंशत्यक्षरा-अतितिः ॥४॥ षड्विंशत्यक्षरावसानानां जातीनां वर्णनस्य प्रकृतत्वाद् द्वयक्षरादिजातीराह- अत्युक्ता-मध्या० इत्यादिना सूत्रेण । व्याख्याति-उक्तात एकैकाक्षरवृद्धपादा अत्युक्तादय इति- तासां छन्दोजातीनां किमपि विशिष्य लक्षणमपि तु अक्षरसंख्यैव तत्तज्जातिनियामिकेत्यर्थः । एतानि नामानि संज्ञामात्रप्रयोजनानि न तु तत्राऽक्षरार्थानुगमः कश्चित् । छन्दोऽनुशासनविधायकः पूर्वाचार्यरपि यानि नामानि समाश्रितानि तान्येव परम्पराप्राप्तानीमानि नामानि, तथा च प्रत्येकं विविच्य परिचाययति- तत्र द्वचक्षरा-अत्युक्ता जातिरित्यादिना, द्वे अक्षरे यस्याः पादे सा द्वयक्षरा, जातिः छन्दःप्रभेदः, अत्युक्ता नामेत्येवंरूपेण व्याख्येयम् । षड्विंशत्यक्षरावसानाः' इत्युक्तमत्र तु पूर्वसूत्रलक्षितयोक्तया सह एकोनविंशतीनामेव कथन मिति किमत्रैव विंशत्यक्षरादिपादानामपि संनिवेश उत तानि पृथग वक्ष्यन्ते इति शिष्यसंशयोच्छेदायाहएवं-यावदेकोनविंशत्यक्षरा-अतितिरिति-विंशत्याद्यक्षरपादानामग्रिमसूत्रेण संगृह्य संज्ञाया वक्ष्यमाणत्वेनैकोनविशत्यक्षरपादानामेवात्र संनिवेश इति भावः, एकेन ऊना-एकोना "ऊनार्थ०" [ ३. १. ६७. ] इति समासः, एकोना चासो विंशतिरिति कर्मधारये पुंवद्भावे च- एकोनविंशतिरिति, एकानविंशतिरिति पाठे तु- एकेन नविंशतिरेकानविंशतिरिति "नविंशत्यादि." [३. १. ६६.] इति समास एकशब्दस्य चादन्तागमः, सूत्रनिर्देशबलात् नबोऽदादेशो ड: समासान्तश्च न भवति । अ० २, सू०-४॥ कृतिः प्राविसमभ्युदश्च ॥५॥ __ 'प्र-आङ्-वि-सम्-अभि-उद्' इत्येतेभ्यश्च परा कृतिरेकेकवृताक्षरा । विशत्यक्षरा-कृतिः, एकविंशत्यक्षरा-प्रकृतिः, द्वाविंशत्यक्षरा-आकृतिः, त्रयो
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy