________________
[अ० २, सू० ३.]
सवृत्तिच्छन्दोऽनुशासनप्रद्योते
लक्षणसूत्रेऽपेक्ष्यते तत्र तत्र सम्बध्यत इत्यर्थः । एवं चाग्रे यावद्भिरक्षरमंत्राभिर्वा यस्य छन्दसो लक्षणं वक्ष्यते तस्यैकः पादस्तादृशलक्षणयुक्तः, तावद्भिर्वर्मात्राभिर्वा तदीय: पादो विज्ञेय इति यावत् । यद्यप्यग्रे पूर्वार्धपरार्धयोरप्यार्यादिच्छन्दःसु मात्रासंख्या नियता न तु प्रतिपादम्; एवं च तेषु 'पाद' इत्यस्याधिकारो न सम्बध्यत इति तस्य विच्छेदोऽभ्युपेयः, तथाप्यार्याप्रकरणानन्तरं गलितकादिच्छन्दसि पुनः पादानुसार्येव लक्षणमिति तत्रैतस्याधिकार आवश्यक एवेति "अपेक्षातोऽधिकारः" इति न्यायानुसारं मण्डूकप्लुत्या तत्राधिकारोपस्थितिः स्वीकार्येति साधुक्तम् आ शास्त्र परिसमाप्तेरिति ॥ २ ॥ अ० २, सू०-२ ।।
इदानीमेकाक्षराद्या: षड्विंशत्यक्ष रावसानाइछन्दोजातीराहएकाक्षरोक्ता जातिः ॥ ३ ॥
एकाक्षरपादा उक्ता नाम मेदसंग्रहात्मिका जातिः ॥ ३॥
५१
आरम्यमाणस्य छन्दोलक्षणग्रन्थस्याधिकारसूत्रानन्तरं पठ्यमानं प्रकरणमवतारयति - इदानीमेकाक्षराद्याः षड्विंशत्यक्षरावसानाइछन्दोजातीराहेति - एकाक्षरपादं छन्द आदौ षड्विंशत्यक्षरात्मकपादं च छन्दोऽवसाने यासां तादृशीः, छन्दोजाती :- स्वावान्तरविशेषसहितानि छन्दः सामान्यानि, आह- कथयति, वक्ष्यमाणैः सूत्रैरित्यर्थः । तत्रैकाक्षरच्छन्दोजाति प्रथमेन वस्तुतस्तृतीयेन सूत्रेणाह - एकाक्षरोक्ता जातिरिति - अत्र पदत्रयम् - एकाक्षरा उक्ता जातिरिति च । तथा चार्थमाह- एकाक्षरपादा इत्यादिना, एकाक्षरमात्रः पादो यस्यास्तादृशी छन्दोजातिः 'उक्ता' इति संज्ञिता । तादृशस्य च्छन्दस एकत्वेनैकव्यक्तिमात्रवृत्तिधर्मस्य जातित्वाभावात् कथं जातिरिति व्यवहार इति चेत् ? अत्राह - भेदसंग्रहात्मिकेति - छन्दोभेदसंग्रह एव आत्मा स्वरूपं यस्याः सा इत्यर्थः तथा च उक्तात्वं न सामान्यरूपमपि तु औपाधिको धर्मं विशेष एकाक्षरपादच्छन्दोवृत्तिरिति न काऽपि हानिरिति । क्वचित् पिङ्गलच्छन्दः शास्त्रादावस्य च्छन्दसश्छन्दोजातेर्वाऽस्याः 'उक्था' इति नाम दृश्यते, अर्थविशेषाननुगमात् पारिभाषिकनाम्नि नियामकाभावाच्च नात्र किञ्चिन्निर्णायकमिति यदृच्छाशब्दवदपर्यनुयोजनीयमेतत् ॥ अ० २, सू० - ३ ॥