SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० १ - २. ] अथ द्वितीयोऽध्यायः । छन्दः ॥। १॥ आ शाखपरिसमाप्त:, 'छन्द:' इत्यधिकृतं वेदितव्यम् ॥ १ ॥ छन्दोऽनुशासनोपयोगिनीः संज्ञाः प्रथमाध्यायेनोक्त्वा छन्दांसि विवक्षुरप्रे वक्ष्यमाणसूत्रेषु सर्वत्रोपस्थास्यत् 'छन्दः' पदमधिकरोति - "छन्दः" इति । सूत्रस्यैकपदरूपत्वात् पदान्तरं विना च वाक्यार्थ बोधानुपयुक्तत्वात् सूत्रस्य नैरर्थंक्यशङ्कायामाह - आ शाखपरिसमाप्तेरिति - शास्त्रस्य - प्रकृतच्छन्दोऽनुशासनस्य, समाप्तिमभिव्याप्य, 'छन्दः' इति पदमधिकृतं - सर्वत्र सम्बध्यमानं वेदितव्यं ज्ञातव्यमित्यर्थः । तथा चाधिकारसूत्रमिदं वक्ष्यमाणानां सूत्राणामुपकारकमिति स्वांशेऽबोधकत्वेऽपि परत्र बोधजननात् सार्थक्यमासादयति । एवं च - , " संज्ञा च परिभाषा च विधिनियम एव च । प्रतिषेधोऽधिकारश्च षड्विधं सूत्रलक्षणम् ॥” ५० इति परिगणितेषु सूत्र लक्षणेषु षष्ठी विधाऽस्य सूत्रस्येति । एतच्च सूत्रं छन्दोलक्षणसूत्रेष्वेवाधिकृतं बोध्यम्, न तु " पादः " [ २-२ ] इत्येवमादिष्वधिकारसूत्रेषु तेषामपि विधिसूत्रोपकारकत्वेन गुणरूपत्वात्, “गुणानां च परार्थत्वादसम्बन्धः समत्वात् स्यात्' इति न्यायानुसारं परस्परसम्बन्धानर्हत्वात्; तथा च "अपेक्षातोऽधिकारः" इति न्यायेन यत्रैतस्यापेक्षा तत्रेदं सम्बध्यत इति पर्यवसितम् ॥ अ० २, सू० -१ ॥ पादः ॥ २ ॥ पाद इत्यधिकार आ शास्त्रपरिसमाप्तेः ॥२॥ अन्यदप्यधिकारसूत्रमाह - " पादः" इति । अस्याप्येकपदत्वेन स्वार्थबोधाक्षमत्वात् परार्थत्वे विज्ञातेऽधिकारार्थत्वमेव योग्यतया प्रतीतमित्याह- पाद इत्यधिकार आ शास्त्रपरिसमाप्तेरिति, तथा च पूर्वसूत्रवदिदमपि यत्र यत्र
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy