SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ [अ० १, सू० १७.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते माशय:- पूर्व यतिसंज्ञासूत्रे वृत्तौ "सा च तृतीयान्तेषु गघादिनिर्देशेषूपतिष्ठते" इत्युक्तम्, स च गघादिनिर्देशः किमर्थबोधक इति शङ्कापनोदोऽनेन क्रियते, गकारादयो वर्णमालायां स्वक्रमप्राप्तां संख्या बोधयन्तीति तत्र तृतीयस्य गस्य त्रित्वसंख्याबोकत्वम्, चतुर्थस्य घस्य चतुष्टसंख्याबोधकत्वमिति त्र्यादिसंख्यानां गादिः संज्ञेति । गादिसंज्ञाप्रदेशाश्च-"म्नौ जो गः प्रहर्षिणी गैः” [२-१९७] "म्तो ल्गौ माणवकं धः" [२-७७ ] इत्येवमादयो बोध्याः ॥ सू० १७ ।। । इति कलिकालसर्वज्ञकल्पश्रीहेमचन्द्रसूरिभगवत्प्रणीते स्वोपज्ञवृत्तिH संकलिते छन्दोऽनुशासने प्रथमाध्याये तपोगच्छाधिपति- सर्व तन्त्रस्वतन्त्र- श्रीविजयनेमिसूरीश्वरपटालंकारेण 'व्याकरणवाचस्पति-शास्त्रविशारद-कविरत्न' इति पदालंकृतेन श्रीविजयलावण्यसूरिणा प्रणीत: प्रद्योतः ॥
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy