________________
४८
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० १, सू० १७.] प्रकृतयतिविचारमुपसंहरन्नाह- तथा हि इत्यादि, एतावता विचारेण योऽर्थः प्रतिपादयितुमिष्टः सोऽनया कारिकयोच्यत इति भावः । अबह्वर्थापीतिनास्ति बहुः- अन्तर्निगूढबाहुल्यवान् अर्थो यस्यास्तथाभूताऽपि, मधुरा स्थानप्रयुक्तयत्यादिना सुखश्रव्या, भारती वाणी, मनः हरति स्ववशं नयति, दृष्टान्तेनोक्तमर्थं समर्थयति- तमोनिचयसंकाशा अन्धकारसमूहाकृतिरपि, मत्तनादा मदयुक्तं नदन्ती, कोकिला पिकी इवेत्यर्थः । कोकिला दर्शने कुरूपापि श्रुतिसुखदशब्देन यथा मनो हरति तथैव श्रव्या भारत्यपीति भावः ।।
यत्यादिदोषयुक्तं वचनं कियच्छ्र तिदुःखावहं भवतीत्यत्र प्राकृतपिङ्गले इत्थमुक्तम्
"जेम ण सहइ कणअतुला तिलतुलिअं अद्धअद्धेण । तेम ण सहइ सवणतुला अवछन्दं छन्दभङ्गेण ॥ अबुह बुहाणं मज्झे कव्वं जो पढइ लक्खणविहूणं । भुअग्गलग्गखग्गेहिँ सीसं खुडिअं ण जाणेइ [१-१०, ११ ] इति । "यथा न सहते कनकतुला तिलतुलितमर्धान । तथा न सहते श्रवणतुला अपच्छन्दश्च्छन्दोभङ्गेन । अबुधो बुधानां मध्ये काव्यं यः पठति लक्षणविहीनम् । भुजाग्रलग्नखड्गैः शिरः खण्डितं न जानाति ।। इति संस्कृतम् ।
अस्यार्थः- कनकमानतुलायां तिलार्धार्धमपि चेत् प्रक्षिप्यते तदपि तुलया विरुध्यत एव, एवं यदि कश्चिन्मूर्खः पण्डितसमाजे छन्दःशास्त्रीययतिमात्रादिलक्षणहीनं काव्यं पठति, तां श्रवणतुला न सहते, प्रत्युतायं दोषः खड्गेन शिरश्छेदवद् दुःखकर इति स [ अबुधो ] न जानातीति [ १६-३४ ] ॥
व्यादिर्गादिः ॥१७॥ त्रि-चतुरादिः संख्या क्रमेण 'ग-घ-कादि संज्ञा ॥ सू० १७॥
! इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञच्छन्दोऽनुशासनवृत्ती संज्ञाK ध्यायः प्रथमः समाप्तः ॥१॥ ग्रन्थानं-१२५, अ० १८।
।
एवं यति निरूप्य छन्दोलक्षणोपयुक्तां गादिसंज्ञामाह-व्यादिर्गादिरिति । तदेव विवृणोति- त्रिचतुरादिसंख्या क्रमेण ग-घ-ङादिसंज्ञा इति, अय