________________
४७
[अ० १, सू० १६.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते
नित्यं प्राक्पदसम्बद्धाश्चादयः प्राक्पदान्तवत् । परेण नित्यसम्बद्धाः प्रादयश्च परादिवत् ॥४॥"
इति कारिकाचतुष्टयमनुसृत्य यत् किश्चिद् यतिविषये व्यवस्थापितं तदिह सूत्रे सन्नि वेशितेन श्रव्यपदेनैव संगृहीतमिति तदर्थं न पृथक् सूत्रप्रणयनमावश्यकम् । श्रव्यत्वं हि श्रुतिसुखकरत्वमिति तत्सूत्रविवरण एवोक्तम्, तथा च प्रोक्तकारिकाचतुष्टयेन तथैव यतेर्व्यवस्था प्रदर्शिता यथा श्रोतुः श्रवणसुखमुत्पद्यते, विपरीतस्य श्रोतुर्वैमुख्यापादकत्वमिति हेयत्वमेव, एवं च कारिकाचतुष्टयेन तत्सम्बद्धन वा व्याख्यानेन न किञ्चिदिहि विशिष्य विधातुमिष्टमिति । किञ्च, एतावता यते: श्रुतिसुखायैव विन्यास इति यत्र यतिर्नोपदिष्टा तत्रापि स्वेच्छया तथा यतिः कल्पनीया यथा श्रव्यता स्यादित्युपदिशति- अनिर्दिष्टयतिकेऽपि च्छन्दसीति, अयमाशयः-वर्णच्छन्दःस्वेव केषुचिद् यतिनिर्दिष्टा मात्राछन्द:सु तु सा नोच्यते तथापि तत्राऽपि तथैव यतिः करणीया यथा श्रव्यता भवेत् । तादृशयतेः सूत्रेणानिर्देशेऽपि उदाहरणेषु व्यक्तीभावादनिष्टामेव यति प्रदर्शयति परित्यागार्थम्- न पुनरेवं यथा तेनेत्यादि- एवं पुनर्यतिर्न विधेया यथोदाह्रियमाणे पद्ये दृश्यत इत्यर्थः । अत्र मानमपीत्यस्य पाठस्य स्थाने 'मानमयि' इति पाठस्य स्थितिः सम्भाव्यते तथैव शोभनार्थगतेः । अपेरत्रासंश्लिष्टार्थत्वमेव । “अयि शशिमुखि ! सखि ! तेन प्रियेण गतेन किं, तस्मिन् मानं कुरु, हे वरतनु ! समदनः स तव चरणयुगम्, स्वयमेव समेति" इत्यन्वयः । काचित् सखी कुपित्वा गतं प्रियं प्रति शोचन्तीं नायिका प्रोत्साह्यन्त्याह- अयि शशिमुखि !- शशी चन्द्र इव मुखं यस्यास्तत्सम्बुद्धौ-हे चन्द्रानने ! सखि ! समानसुखदुःखे !, [ एतेन हितोपदेशपात्रत्वमप्रतारणीयत्वं च सूचितम् ] तेन-पूर्वोपभुक्तेन, प्रियेण-तवापि प्रीतिपात्रेण, गतेन- त्वां विहायान्यत्र यातेन, किं- न किमपि, ते अत्याहितम् । कुत इत्थं कथयसीत्याशङ्कायामाह- हे वरतनु !- वरा सर्वावयवकमनीया तनूः- शरीरं यस्यास्तथाभूते !, समदन:-कामपीडायुक्तः, सः-तव प्रियः, तव- भवत्याः पूर्वोक्तसौन्दर्यशालिन्याः, चरणयुगं- पादद्वन्द्वं प्रति, [तवानुनयनाय प्रणिपतितुम् ] स्वयमेव- दूतीप्रेषणादिकं विनव, समेति- समागच्छन्नेवास्ति, न तु समेष्यति, वर्तमानसामीप्यविवक्षया भविष्यति वर्तमानकालप्रयोगः । अत्र यतिः कापि न प्रतीयत इत्यस्य पद्यस्याश्रव्यत्वम् [ १६-३३] ॥