________________
४६
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० १, सू० १६.] क्षप्रेक्षणं यस्य तथाभूताम्, मृगाक्ष्याः चञ्चलविलोचनायाः प्रियायाः, नयनम्, उपरिस्पन्दि शुभप्राप्तिसूचकतयोपरिभागे स्फुरत् सत्, मीनक्षोमात् मत्स्यकृतालोडनात्, चलकुवलयश्रीतुलां चञ्चलनीलकमलकान्तिसाम्यम्, एष्यति प्राप्स्यति, इति शङ्क तर्कयामि । कुवलयेन सह नेत्रस्योपमा कविभिर्दीयते, किन्तु तत्र कटाक्षविक्षेपाऽञ्जनसम्बन्धभ्रूविलासादयो न भवन्तीति साम्यं सम्यक्तया न घटते, संप्रति च मत्प्रियानेत्रमपि ततद्विशेषशून्यमेव, केवलं शुभसूचकोपरिभागस्फुरणयुक्तम्, तच्च मत्स्यसंपर्कात् कुवलयेऽपि सम्पन्न मिति साम्प्रतमेवोमयोः पूर्ण साम्यमिति कवेरुत्प्रेक्षा । अत्र चाद्यन्तर्गतस्य अपेः प्रत्यादेशादिति प्राक्पदेन सम्बन्धसत्त्वेऽपि अनेकवर्णतया ततः पूर्वमपि मन्दाक्रान्ताच्छन्दसो घावच्छिन्नभागे विरामोऽदुष्ट इति सङ्गतिः [ १६-३१ ] ।। । चादिविषये पूर्वान्तवद्भावाभावमुदाहृत्य प्रादिविषये परादिवद्भावाभावमुदाहरति-प्रादीनां यथा- दूरासूढप्रमोदमिति-आसां प्रकृतानां वनितानाम्, सखीभिः सवयोभिः सहचरीभिः सह, परिस्पष्ट हसितं दरारूढप्रमोदमिव यर्थताः सखीभिः सह मिलित्वाऽतिस्पष्टरूपेण हसन्ति तथाऽनुमीयते- आसां प्रमोदो हर्षों दूरमारूढ इत्यर्थः। अत्र स्रग्धधराच्छन्दसि छावच्छिन्ना द्वितीया यतिः 'परि' इत्येतस्य अन्ते पततीति, परेःप्रादितया तस्य परादिवद्भावौचित्येऽपि अनेकवर्णत्वेन न सा व्यवस्थाऽत्र युक्तेति न दोष इति संगतिः [ १६-३२ ] ।।
एतत् सर्वमन्योक्तयतिव्यवस्थामाश्रित्य कथितम्, तथा चास्यावश्यकत्वमपि अनुमतमेव, अप्रतिषिद्धं परमतमनुमतं भवतीति पसिद्धेः, एवं च स्वग्रन्थे एतद्विषये सूत्राभावादनुशासनेऽपूर्णतेति शङ्कामपाकुर्वन्नाह- तदेतत् सर्व श्रव्यपदेनैव गतार्थमिति, अयमर्थः- "श्रव्यो विरामो यतिः" [ १-१६ ] इति सूत्रव्याख्याप्रसङ्गेन
"यतिः सर्वत्र पादान्ते श्लोकार्धे तु विशेषतः । गादिच्छिन्नपदान्ते च लुप्तालुप्तविभक्तिके ॥१॥ कचित् तु पदमध्येऽपि गकारादौ यति वेत्। यदि पूर्वापरो भागी न स्यातामेकवर्णको ॥२॥ पूर्वान्तवत् स्वरः सन्धौ क्वचिदेव परादिवत् । द्रष्टव्यो यतिचिन्तायां याद्यादेशः परादिवत् ॥३॥