SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ४४ - - सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० १, सू० १६.] "धूमज्योतिःसलिलमरुतां सन्निपातः क्व मेघः, सन्देशार्थाः क पटुकरणः प्राणिभिः प्रापणीयाः । इत्योत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे, कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥" [ पू० मे० ५] इति पूर्ण पद्यम् । कविकुलतिलकः कालिदासो निर्जीवं मेघं प्रति यक्षस्य प्रार्थना कथमुचितेति शङ्कामपनयनाह-धूमज्योतिःसलिलमरुतां बाष्पतेजोजलवायूनां, संनिपातः सङ्घातस्वरूपः, मेघः क ? पटुकरणः विचारपूर्वकयथोचितव्यापारसमर्थेन्द्रियः, प्राणिभिः जीवैः, प्रापणीयाः नेयाः, सन्देशार्थाः वाचिकाभिधेयाः, क? अनयो कत्र समावेश इति, औत्सुक्यात प्रबलौत्कण्ठ्यात्, इति पूर्वोक्तविवेकम्, अपरिगणयन् अनिर्धारयन्, गृह्यकः यक्षः, तं मेघ, ययाचे सन्देशप्रापणार्थ प्रार्थयामास; प्रकृतमथं समर्थयितुमर्थान्तरं न्यस्यति-हि यतः, कामाततः परस्परसंश्लेषाभिलाषविकलाः, चेतनाचेतनेषु जीवाजीवेषु, प्रकृतिकपणाः स्वभावत एव दैन्यप्रदशिनो भवन्ति, इत्यर्थः । अत्र नजयुक्तस्य परेनिपातस्य गणयतिना परेण सम्बद्धत्वात् तस्य परादिवत्त्वमेव भवतीति 'इत्यौत्सुक्या' इत्येतावत्येव यतेविश्रान्तिः, सा च 'चादयः प्राक्पदान्तवत्' इति सामान्यनियमाश्रयणे नोचिता स्यादिति 'नित्यं प्राक्पदसम्बद्धा' इति विशेषाश्रयणमावश्यकमेवेति [ १६-२८ ] ॥ प्रादिविषये व्यवस्थान्तरमाह-'परेण नित्यसम्बद्धाः' इति- प्रादयो ये नित्यं परेण सम्बध्यन्ते ते परादिवदेव भवन्तीत्यर्थः । तथा च फलितार्थमाहप्रादिभ्यः परा यतिन भवतीत्यर्थः इति-परेण सम्बद्धेभ्यः प्रादिभ्यः पूर्वमेव यतिर्भवति, तदन्ते यतिनं भवतीति भावः । प्रत्युदाहरति- दुःखं मे इतिदुसहः सोढुमशक्यः, त्वद्वियोगः त्वया सह विरहः, मे हृदये दु:खं प्रतिक्षिपति प्रवेशयतीत्यर्थः, अत्र 'प्र' इत्यस्य क्षिपतीति क्रियया नित्यसम्बन्धात् ततः परा तमभिव्याप्य मन्दाक्रान्ताच्छन्दसो घावच्छिन्नभागे यतिर्न भवतीति प्रकृते यतिभङ्गदोषः स्पष्टः, स न विधेय इति समन्वयः [ १६-२६] ॥ पदकृत्यं पृच्छति- 'परेण नित्यसम्बद्धाः' इति किमिति- प्रादयश्च परादिवदित्येवोच्यतामिति प्रष्टुराशयः। क्वचित् प्रादिभ्यः पराऽपि यतिरिष्टा,
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy