SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ [अ० १, सू० १६. ] सवृत्तिच्छन्दोऽनुशासनप्रद्योते ४३ धेरचैश्च यतिरिति स्वच्छमित्यत्र यतिरुचिता किन्तु तत्सम्बद्ध: 'चः' ततो विभिद्यत इति एतादृशस्थले चादेः पूर्वं यतिरनुचितेति सङ्गतिः [१६-२६]॥ पदकृत्यं पृच्छति - 'नित्यं प्राक्पदसम्बद्धाः' इति किमिति - चादयः प्राक्पदान्तवद् भवन्तीति केवलमुच्यतां चादीनां प्रायः पूर्वपदेनैव सम्बन्ध इति 'नित्यं प्राक्पदसम्बद्धा:' इति विशेषणं व्यर्थमिति प्रष्टुराकृतम् । उत्तरयतिअन्येषां पूर्वान्तवद्भावो मा भूदिति - ये चादयः पूर्वेण परेण च सम्बद्ध्यन्ते, केवलं परेणैव वा सम्बद्धास्तेषां परादिवद्भावो भवति, स यथा स्यात्, पूर्वान्तवद्भावो न स्यादित्येतदर्थं 'नित्यं प्राक्पदसम्बद्धा:' इत्यस्योपादानमावश्यकमिति भावः । तादृशं स्थलमुदाहरति यथा - मन्दायन्ते इति, "तां कस्यांचिद् भवनवलमौ सुप्तपारावतायां, नीत्वा रात्रि चिरविलसनात् खिन्नविद्युत्कलत्रः । दृष्टे सूर्ये पुनरपि भवान् वाहयेदध्वशेषं, मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः ।" [ पू० मे० ३८ ] इति पूर्ण पद्यम् । यक्षो मेघस्य मार्गक्रमं वर्णयन्नाह सुप्ताः पारावता:- कपोता यस्यां तादृशि, कस्यचित् स्वेच्छास्वीकृतायामनिर्दिष्टायां, भवनवलभौ प्रासादाग्रस्थितकपोतपालिकायां, तां तत्रोपस्थितां, रात्रि नीत्वा अतिवाह्य, चिरविलसनात् बहुकालं विद्योतनात्, अथ च कलत्रत्वेन रूपितत्वात् बहुकालकृतरतिक्रीडाया हेतोः, खिन्नविद्यतकलत्रः खिन्ना - शिथिला विद्युदेव चपलैव कलत्रं भार्या यस्य तादृशो भवान् मेघः, सूर्ये दृष्टे इति - दिनादावित्यर्थः, अध्वशेषं शिष्टं पन्थानं, वाहयेत् लङ्घयेत् । तत्समर्थनायार्थान्तरं न्यस्यतिसुहृदां मित्राणाम्, अभ्युपेतार्थकृत्याः स्वीकृतप्रयोजनीयकार्या जनाः, न खलु नैव, मन्दायन्ते गतिशैथिल्यमाश्रयन्ति इत्यर्थः । अत्र चाद्यन्तर्गतो नकारो यद्यपि प्राक्पदसम्बद्ध एव, तथापि तस्य चकारवत् नित्यं प्राक्पदसम्बन्धाभावात् तत्पूर्वमपि यतिरविरुद्धा, अन्यथा स्वादु स्वच्छं चेति पूर्वोदाहरणवत् तेरनौचित्यं स्यादिति परादिवद्भावो न स्यात्, भवति च स इति 'नित्यं प्राक्पदसम्बद्धा:' इति कथनमावश्यकमिति [ १६-२७ ] ॥ पूर्वसम्बद्धमपि अनित्यसम्बद्धं प्रत्युदाहृत्य परसम्बद्धं प्रत्युदाहरति- इत्यौत्सुक्यादिति, -
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy