________________
सवृत्तिच्छन्दोऽनुशासनप्रद्योते
अच्छिन्नप्रसराणि नाथ ! भवतः पातालकुक्षौ यशां
यद्यपि क्षपयन्ति कोकिलकुलच्छायासपत्नं तमः ॥” इति पूर्ण पद्यम् । हे नाथ ! अच्छिन्नप्रसराणि अव्याहतप्रचाराणि भवतः तव यशांसि, अद्यापि, पातालकुक्षौ क्षित्यधोभागे, अत्यासन्ननिषण्णाः- अतिसमीपोपविष्टाः, याः, पन्नगवध्वः- नागवनिताः, तासां गीतोत्सवस्य - संगीतविनोदस्य, प्रक्रमेअवसरे, भोगमृतां सर्पाणां पत्युः स्वामिनो वासुकेः, श्रोत्रयोः चक्षुषोः, सर्पाणां चक्षुःश्रवत्वात् किमपि अनिर्वचनीयं यथा स्यात् तथा प्रीतिम् आह्लादं ददति किन कोकिलकुलच्छाया सपत्नं पिकसमूहकान्तिसदृशं, तमः अन्धकारं क्षपयन्ति नाशयन्ति इत्यन्वयः । लोकत्रयप्रसरद्य शसस्ते प्रियतरा समुज्वला च कीर्तिर्नागवधूभिरपि गीयते येन तत्पत्युर्नागराजस्य प्रीतिस्तत्रत्यान्धकारस्य नाशश्वाद्यापि जायत इति भाव:, अनेन यशसो विस्तारः सकलजीवाह्लादकत्वं च वर्णितम् । अत्र तृतीयपादान्तसमागतस्य 'यशांसि' इति पदसम्बन्धिन इकारस्य स्थाने जातो यादेशः परादिवद् भवतीति 'यशां' इत्यत्रैव पादान्तयतिः श्रव्यतां नातिक्रामति [१६-२४] ॥
"
४२
[अ० १ सू० १६. ]
उदाहरणान्तरमाह - विततघन० इति - वितताः - विस्तृताः, घनाः सान्द्राः, तुषारक्षोदा: - हिमकणाः, तैः शुभ्रासु - श्वेतीभूतासु, दूर्वासु, श्यामलां श्यामवर्णाम्, अविरलपदमालां निबिडपदपङ्क्तिम्, उल्लिखन्तः प्रकाशयन्तः, इत्यक्षरार्थः । हिमाच्छादितदूर्वायुक्तभूमौ चलनाद्विमस्य गलने दुर्वावर्णस्य प्रकाशात् पदपङ्क्तिः श्यामला भातीति भावः । अत्र प्रथमपादान्तस्थ 'दूर्वासु' इति पदसम्बन्धिन उकारस्य स्थाने जातो वकारः परस्य निमित्तभूतस्य स्वरस्यादिवद् भवतीति तेन सहैव तस्योच्चार्यतया छिन्नेऽपि पदे पूर्वपादान्तयतिर्न दुष्यतीति [ १६ - २५ ] ॥
स्वरसन्धिविषये यतिव्यवस्थामुक्त्वा चादिनिपातविषये यतिव्यवस्थामाहनित्यमिति - प्राक्पदेन सम्बद्धाश्वादयः पूर्वपदस्यान्तवद् भवन्तीति ततः प्राग् यतिरनुचितेति तदर्थः । तदेव वृत्त्या आह- चादिभ्यः पूर्वं यतिर्न कर्तव्ये - त्यर्थः इति । व्यावर्त्ययति प्रदर्शयति- यथा - स्वादु स्वच्छं चेति - स्वादु सुरसं, स्वच्छं निर्मलं च, इदं सन्निकृष्टस्थितं सलिलं जलं कस्य प्रीतये तृप्तये, न स्यात् - सर्वस्य तृप्तिकारणं स्यादेवेति भावः । अत्र मन्दाक्रान्ताच्छन्दसि
1
,