SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ __ ४१ [अ० १, सू० १६.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते भावः । अत्र 'हृषीक-ईश' इत्यनयोः सन्धिः परादिवदिति 'हृषी' इत्यन्तेऽपि स्रग्धरायाश्छावच्छिन्ने यतिरदुष्टेति [ १६-२१ ] । नन्वस्तु परादिद्भावे सत्यपि स्वरांशस्यैव परतो गतिः, व्यञ्जनांशः कथं परतो नीयते तस्यकादेशाविषयत्वादित्याशङ्कायामाह- अत्र हि परादिव. द्भाव इति, अयमाशय:- व्यञ्जनानि न स्वतन्त्राणि, तानि कंचित् स्वरमाश्रित्यवोच्चारयितुं शक्यन्ते, तत्र पूर्वस्य परस्य च स्वरस्याश्रयतायां समुपस्थितायां परमेव स्वरमाश्रयन्तीति स्थितिः । तदुक्तमभियुक्तः- "नटभाविद् व्यञ्जनानि भवन्ति" इति, अयमभिसन्धिः- यथा नटभार्याः पूर्वस्मिन् परस्मिश्चानुरक्ते जने समुपस्थिते पूर्वस्योपभुक्ततया परमेवाश्रयन्ति तथैव व्यञ्जनान्यपि परभक्तानि- पराश्रितानि भवन्तीति । तथा व्यञ्जनानी स्वरपारवश्यात् तस्य [ स्वरस्य ] परादित्वे तस्यापि पराधीनत्वमेवेति तदादिवदेव तदिति । अत्र विशेषमाह- "यदि पूर्वापरौ भागौ न स्यातामेकवर्णको" इति अन्तादिवद्धावविधावपि सम्बध्यत इति, अयमाशय:- अन्तवद्भावेन आदिवद्भावेन च या यतिरधस्तात् प्रतिपादिता तत्रापि, पूर्वोत्तरभागयोरेकवर्णत्वं नोचितमिति। तत्फलमाह-तेन-"अस्या वक्ताब्ज." इत्येवंविधा यतिर्न भवतीति- अवजिता-निजिता, पूर्णेन्दो:- सकलकलायुतचन्द्रस्य, शोभा-कान्तिर्येन तादृशमस्याः, वक्ताब्जं- मुखकमलं, विभाति शोभते, इत्यन्वयः । अत्र मन्दाक्रान्ताच्छन्दसि प्रथमा घावच्छिन्ना द्वितीया चाववच्छिन्ना च यतिः पूर्वान्तवद्भावेन 'वक्ता' इत्यन्ते, परादिवद्भावेन 'पू' इत्यन्ते च भागे समापतति, परन्तु प्रथमायां द्वितीयायां च पूर्वोत्तरभागयोरुमयोरप्येकवर्णत्वमेव भवतीति अदुष्टा यतिनं भवतीत्याशयः [१६-२३] ।। __ एवमुभयादेशस्थले व्यवस्थामुदाहृत्य एकस्थानिकादेशविशेष व्यवस्थामाहद्रष्टव्यो यतिचिन्तायां याद्यादेशः परादिवदिति- यतिचिन्तायां यतिविवारप्रसङ्गे, याद्यादेशः एकस्थानिको 'य-व-र-ल' इत्येवंरूप आदेशः, परस्य- निमित्तभूतस्वरस्य, आदिवत्, द्रष्टव्य इत्यर्थः । उदाहरति- यथा- अच्छिन्नेति, 'अत्यासन्ननिषण्णपन्नगवधूगीतोत्सवप्रक्रमे, पत्यु गभृतां ददन्ति किमपि प्रीति मुहुः श्रोत्रयोः ।
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy