________________
४०
सवृत्तिच्छन्दोऽनुशासनप्रद्योते
[अ० १, सू० १६. ]
उदाहरणान्तरमाह-जम्भारातीभेति, सूर्यशतके मयूरकवेः पद्यस्यांशोऽयम्, अत्र 'सान्द्र सिन्दूर रेणुम्' इति पादशेषः । जम्भारातिः - इन्द्रः, तस्य इभ :- गज ऐरावतः, तस्य कुम्भे- ललाटे, उद्भव:- उत्पत्तिर्यस्य तादृशमिव, सान्दंनिबिडं सिन्दूररेणुं दधत् इत्यन्वयः । अत्र स्रग्धराच्छन्दसि छावच्छिन्नःसप्तमिर्वर्णे विराम इति कुम्भशब्दाकारस्य उदुद्भवशब्दोकारेण सह ओकाररूप एकादेशः पूर्वान्तवद् भवतीति 'कुम्भो' इत्यन्ते यतिः श्रव्या जाता [ १६-१८ ] ॥
"
उदाहरणान्तरमाह - दिक्कालेति, 'स्वानुभूत्येकमानाय नमः शान्ताय तेजसे' [ भर्तृहरेः - नी० श० १ ] इत्युत्तरार्धमस्य हलायुधवृत्तौ दृश्यते । दिक्कालादिभिः, अनवच्छिन्ना - अव्यावर्त्तिता, अत एव अनन्ता - अपर्यन्ता, चिन्मात्रा - चैतन्येकस्वभावा, मूर्ति- स्वरूपं यस्य तस्मै, स्वानुभूतिः - स्वापरोक्षानुभव एव, एकं - केवलं, मानं - प्रमाणं यत्र तस्मै शान्ताय अव्याकुलाय, तेजसे परप्रकाशरूपाय [ ब्रह्मणे ] नमः, इति । अयमाशयः - त्रिधा ह्यवच्छेदो भवति - दिशा कालेन वस्तुना च सर्वत्र सर्वदा सर्वस्वरूपेण स्थितस्य वस्तुनो दिशा कालेन वस्त्वन्तरेण वा व्यावृत्तिर्न संभवतीत्यपरिच्छिन्नं तदनन्तमिति सिध्यति, न च तस्य चैत्यन्यकैवल्यादतिरिक्तं स्वरूपमिति पूर्वार्धन, स्वानुभूतिमात्रवेद्यत्वं सर्वोपद्रवशून्यत्वं स्वप्रकाशत्वं चोत्तरार्धेनोक्तमिति । अत्रानुष्टुप्छन्दसः प्रथमपादान्तस्य उत्तरपादादिस्थितेन 'अनन्त' शब्दाकारेण सह दीर्घ इति तस्य पूर्वान्तवद्भावेन पादान्तयतेरीचित्यमिति [ १६-२० ] ॥
इत्थं पूर्वान्तवद्भावानुदाहृत्य परादिवद्भावमुदाहर्तुमाह- परादिवद्भावो यथेति - यथा यतो परादिवद्भाव आश्रीयते तदुदाह्रियत इत्यर्थः । स्कन्धे इति, इदं च वाक्यं पूर्वपादानामज्ञातत्वे उपलब्धमात्रेऽशेऽस्पष्टमिति न व्याख्यायते । अत्र 'महिषस्य अहितः' इति पदयोरन्तादी दीर्घेणं कीभूताविति परादिवद्भावे सति 'स्या' इत्यंशः परतो नीयत इति 'महिष' इत्यन्तभागेऽपि स्त्रग्धराच्छन्दसरछावच्छिन्नाक्षरे यतिरदुष्टेति समन्वयः [ १६-२१ ] ॥
परादिवद्भावस्योदाहरणान्तरमाह - शूलं तूलं तु गाढं प्रहरेति - हे हर ! तूलं तूलोपमतया सुखदमिव, शूलं स्वायुधं त्रिशूलं, प्रहर, हे हृषीकेश ! विष्णो !, ते चक्रेण केशोऽपि किं वक्रः, अकारि तेनापि मम न कापि पीडेति