________________
[अ० १, सू० १६.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते यतिस्थानत्वं निर्णीतं स्यादिति तन्निर्णयमाह- योऽयं पूर्वपरयोरेकादेश इत्यादिना, आकारादयः केचिदादेशा उभयोः स्थानिनोः स्थाने विधीयन्त इत्येकादेशतया व्यवह्रिन्ते, तेषु प्रत्येकस्य विषये लक्ष्यानुसारं क्वचित् पूर्वस्थानिकत्वमिति पूर्वभागस्यान्तवद्भावः समाश्रीयते, क्वचित् परस्थानिकत्वमाश्रित्य उत्तरभागस्यादिवत्वं समाश्रीयते, तत्र कारणमाह- उभयादेशत्वादिति- स हि उभयोः स्थाने विहित इति तयोरुभयोधर्म प्राप्नोति तत्स्थानापन्नस्तद्धर्म लभते इति न्यायात् । तत्र लोकव्यवहारमपि दृष्टान्ततयोपोद्वलकत्वेन दर्शयतियथा-पित्रोः पुत्रः पितुश्च मातुश्च भवतीति- माता च पिता च- पितरौ, तयोरुभयोरपि शुक्रशोणिताभ्यां लब्धोत्पत्तिः पुत्र उभयोरपि जन्यत्वेन व्यवह्रियत इति भावः । तत्रायं विशेषो यद् दृष्टान्तस्थले युगपदुभयजन्यत्वाश्रयणेऽपि व्यवहारे न कश्चिद् विरोधः, इह शास्त्रे च समकालं पूर्वान्तत्वं परादित्वं च नाश्रीयते शास्त्रीयव्यवहाराननुगुणत्वात्, एतदर्थमेव वैयाकरणः कैश्चित् 'उभयत आश्रयणे नान्तादिवत्' इति न्यायः स्वीक्रियते। तथा च क्वचित् पूर्वस्यान्तवत् कचित् परस्यादिवदित्येव सिद्धान्तः ।।
तत्र पूर्वान्तवद्भावमुदाहर्तुमाह-स्यावस्थानोपगतयमुनेति, पूर्वमेधे पद्यमिदम्। "तस्याः पातुं सुरगज इव व्योम्नि पश्चार्द्धलम्बी, त्वं चेदच्छस्फटिकविशदं तर्कयेस्तिर्यगम्भः । संसर्पन्त्या सपदि भवतः स्त्रोतसि च्छाययाऽसौ, स्यादस्थानोपगतयमुनासंगमेवाभिरामा ।।" इत्येवंरूपम् । व्योम्नि आकाशे, पश्चार्द्धलम्बी शिरोभागं नीचैः कृत्वा लम्बमानः, सुरगज इव ऐरावत इव, तिर्यक् ऊर्ध्वाधोरूपेण स्थितः, त्वं मेघः, अच्छस्फटिकविशदं स्वच्छस्फटिकवत् अवदातं, तस्याः जाह्नव्याः, अम्मः जलं, पातुं तर्कयेश्चेत् [ तदा ] असौ जाह्नवी, स्रोतसि प्रवाहे, संसर्पन्त्या चलन्त्या, भवतः तव मेघस्य, च्छायया, अस्थानोपगतयमुनासङ्गमेव प्रयागातिरिक्तस्थानलब्धकालिन्दीसंसर्गव, अभिरामा मनोहरा स्यादिति सम्बन्धः । अत्र 'अस्थान-उपगत' शब्दयोरन्ताद्योः स्थाने जात ओकाररूप एकादेशः पूर्वस्यान्तवद् भवतीति 'नो' 'इत्यत्र' छावच्छिन्ने भागे स्रग्धराछन्दसो यतिः श्रव्या [ १६-१८ ] ॥