________________
३८
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० १, सू० १६.] त्वावगमात् पादान्तयतावपि पदमध्यतयाऽनुमतिः स्यादिति पदमध्ये पादान्तयतिरपि संमता स्यात्, तथा चोदाह्रियमाणस्थले यतिः साध्वी स्यात्, न चासाविष्यते । अनिष्टां यतिमुदाहरति- यथा-प्रणमत भवबन्धेति- भवबन्धः- संसारसम्बन्धिबन्धनमेव, क्लेश:- दुःखं, तस्य नाशाय, आनन्दहेतं सुखोत्पत्तिकारणम्, नारायणचरणसरोजद्वन्द्वं विष्णुपदकमलयुगं, प्रणमतेत्यन्वयः । अत्र नारायणेति पदमध्ये यतिः पादान्तस्थेति श्रोतुः कर्णसुखं नोत्पादयतीति न श्रव्यत्वमस्याः; गकारादाविति यदि प्रकृतव्यवस्थायां नोच्येत तीस्या अपि व्यवस्थितत्वं स्यादिति पर्यवसितोऽर्थः [ १६-१४] ॥ ___ 'यदि पूर्वापरौ भागौ न स्यातामेकवर्णको' इत्युक्तविशेषस्य फलं दर्शयतिपूर्वोत्तरभागयोरेकाक्षरत्वे तु पदमध्ये यतिर्दुष्यतीति- यत्र विच्छिद्यमानस्य पदस्य पूर्वाशः परांशो वा एकवर्णक एव तर्हि पदमध्ये चेद् यतिः क्रियते साऽश्रव्यतया दुष्टा भवतीत्यर्थः। * प्रत्युदाहरणान्याह- यथा-एतस्या गण्डतलमिति-अमलं निर्मलम्, एतस्या गण्डतलं कपोलस्थलं चन्द्रकक्षां शशाङ्कसाम्यं गाहते प्राप्नोति । अत्र मन्दाक्रान्ताच्छन्दसि घावच्छिन्ने 'गण्डतल'स्य प्रथमेऽक्षरे यतिरायातीति सा न श्रव्या [१६-१५ ] ॥
एवम्- एतासां राजति० इति- एतासां पुरोवत्तिनीनां वनितानां, कण्ठावलम्बि गलावम्बलमानं, सुमनसां दाम पुष्पमाल्यं, राजति शोभते इत्यन्वयः । अत्रापि मन्दाक्रान्तायां घावच्छिन्ने राजतीत्यस्याद्याक्षरे यतिरश्रव्यवेति [ १६-१६ ] ॥
तथा- सुरासुरेति- सुरासुराणां- देवदानवानां, शिरोभिः- मस्तकः, निघृष्टं- नतिततिभिः कृतघर्षणं, चरणारविन्दं- पादकमलं यस्य तादृशः, शिव इत्यन्वयः । अत्रानुष्टुभि पादान्तयतिः 'निघृष्ट' इति पदमध्येऽपरश्च भागः 'ष्ट' इति एकाक्षर एवेत्यश्रव्यत्वमिति [ १६-१७ ] ॥
अथ सन्धिस्थले यतिव्यवस्थायां विशेषाख्यायिकां कारिकां व्याख्यातुं तदर्घ पृथक कृत्वाह-पूर्वान्तवत् स्वरःसन्धौ० इति, विवृणोति-योऽयं पूर्वपरयोरेकादेश इति- स्वरादेशेषु द्वैविध्यं कश्चिदेकस्थानिकः कश्चित् पूर्वपरोभयस्थानिकश्च, तत्रकस्थानिके तु न संशयः, उभयस्थानिक एव सन्देहो यदयं पूर्वस्थानिकत्वेन गृह्येत परस्थानिकत्वेन वा, तन्निर्णये सत्येव गाद्यवच्छिन्नभागस्थितस्य तस्य