________________
[अ० १ सू० १६. ]
सवृत्तिच्छन्दोऽनुशासनप्रद्योते
३७
तादृशाः, प्रान्तस्था:- समीपस्था:, कान्तारदेशा:- वनभूमयः, इत्यन्वयः । स्त्रग्धरावृत्तेऽत्र 'कूजत्कोयष्टिकोला' इत्यन्तो भागोऽत्र यतौ विच्छिद्यते, तत्र च 'कोलाहला' इति पदं मध्ये भिन्नम्, परतोऽपि च 'हल' इति समुदायो नेकाक्षर इति यतेर्व्यस्थितत्वम् [१६-१०] ।।
पुनरुदाहरति- तथा हासो हस्ताग्रेति, अत्र हलायुधवृत्तौ 'द्विषोऽस्य' इत्यस्य स्थाने 'द्विषोऽसौ' इति पाठः समुपलभ्यते, स एव चार्थवर्णनाय कथमपि युक्तः प्रतिभाति । यद्यपि एतेषां चतुर्णामप्युदाहरणानां पूर्णपाठस्यालभ्यतया नार्थवर्णनासौकर्यं तथापि तावत एवांशस्य व्याख्यानमिह क्रियते यावानिहोपलब्ध: । तुलित: - तोलितः, अद्रीन्द्राणां - प्रधानपर्वतानां, सारो - बलं येन स- इन्द्रः, तस्य द्विट् शत्रुर्महिषासुरः, तस्यास्य हस्ताग्रसंवाहनमपि कराग्रभागेन [ देव्याः ] पादसंवाहनमपि, हास:- उपहासः । अत्रापि 'संवाहन' इति पदमध्य एव यतिः स्रग्धरायां छैर्यतेरुक्तेः तथा च शिष्यमाणः पदांशो नैकाक्षर इति व्यवस्थानुकूल्यम् [ १६-११ ] ।।
भूय उदाहरति- वैरिञ्चानामिति, अत्र 'चतुरऋचाम्' इत्यंशस्य स्थाने 'रुचिरऋचाम्' इति पाठो हलायुधानुमतः तथा चार्थस्यापि वैमत्यमिति तं पाठमाश्रित्यैव व्याख्यायते - तथोच्चारितरुचिरऋचां तथा - उचितरूपेण, उच्चारिता रुचिरा:- सुन्दरा ऋचो यैस्तेषां वैरिचानां ब्रह्मसम्बन्धिनाम्, चतुर्णाम्, आननानां मुखानाम्, इत्यर्थः । अत्रापि 'उच्चारित' इति पदस्य मध्ये एव यतिः, उभयोर्भागयोश्च द्वयक्षरत्वमिति व्यवस्थिता यतिः [ १६-१२ ] ॥
चतुर्थ मुदाहरणमाह- खड्गे पानीयमिति, इदं चोदाहरणं पूर्वपादसम्बन्धं विना व्याख्यानायोग्यम्, पूर्वेषां पादानां चानुपलब्धेर्न व्याख्यायते । अत्रापि आह्लादयतीति पदस्य मध्य एव यतिः, उत्तरांशस्य त्र्यक्षरत्वं पूर्वांशस्य च द्वयक्षरत्वमित्युभयोरेकवर्णत्वाभावः स्पष्टः [ १६-१३ ] ॥
पदकृत्यं पृच्छति - गकारादौ किमिति, सामान्यतः 'अनेकवर्णकपूर्वोत्तरभागवत्पदमध्येऽपि यतिः' एतावदेवोच्यतामिति भावः । उत्तरयति - पदमध्ययतिः पादान्ते मा भूदिति, अयमाशयः - गकारादाविति कथनेन गाद्यवच्छिन्नायाः पादमध्यतेरियं व्यवस्थेति गम्यते, तदनुपादाने च सर्वयतिविषय