SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ सवृतिच्छन्दोऽनुशासनप्रद्योते [अ० १, सू० १६.] स्थाणुः शिरसि चन्द्ररूपेण चामरेण शोभित इति रूपकेण सूच्यते । अत्र प्रथमतृतीयपादान्तयोलृप्तविभक्तिकत्वं द्वितीयचतुर्थपादान्तयोश्चालुप्तविभक्तिकत्वम् [१६-७] ॥ उदाहरणान्तरमाह- वशीकृतेति, इदमपि पद्यं हलायुधेन स्ववृत्तावुदाहृतम्, उत्तरार्धं चास्येत्थमुक्तम्- “महाकालं कलाशेषशशिलेखाशिखामणिम्" इति । वशीकृतो जगतां-सर्वेषां जङ्गमानां कालो-यमो येन तं, कण्ठेकालं कण्ठे स्थितः काल:- विषपानोद्भूतः कालिमा यस्य तं, कलाशेषा-एककला. मात्रावसाना, शशिलेखा- चन्द्ररेखैव, शिखामणि:- चूडारनं यस्य तं, महाकालंतदाख्यं शिवम्, अहं नमामि, इत्यन्वयः । अत्रापि प्रथम-द्वितीयपादान्तयोरलुप्त विभक्तिकत्वं तृतीयपादान्तस्य लुप्तविभक्तिकत्वं चतुर्थे पुनरलुप्तविभक्तिकत्वमिति [ १६-८ ] ॥ यतिव्यवस्थाविषयिणी द्वितीयां कारिकामाह-क्वचित् तु पदमध्येऽपीति, क्वचित् तु पूर्वोकव्यवस्थाभिन्नस्थलेऽपि विरलविषये, पदमध्येऽपि स्याधन्तादिरूपपदासमाप्तावपि, गकरादौ गाद्यवचिन्न भागे, यतिः विश्रामः, भवेत् सम्भाव्यते; किमविशेषेण नेत्याह- यदि पूर्वापरौ भागाविति, यदि चेत्, पूर्वापरौ गाद्यवच्छिन्नसमुदायस्थः पदस्य प्रथमोऽशः, अवशिष्यमाणश्च उत्तरोंऽशः, एकवर्णको एकाक्षरमात्री, न स्यातां न भवेताम् । अयमाशय:यत्या विच्छिद्यमानस्य पदस्य विच्छिन्नोंऽशः परिशिष्टांशश्च एकवर्णाधिकः स्यात् तदैव पदमध्ये यतिरनुमता नान्यथेति । पदमध्ये यतीरुदाहरति- यथापर्याप्तमित्यादि, मयूरकवेः सूर्यशतकस्य कस्यचित् पद्यस्य पादोऽयम्, तप्तचामीकरं- दाहशोधितसुवर्णमयं, कटकतटं- प्रान्तभागो यस्य तादृशे, श्लिष्शीतेतरांशो श्लिष्टा:- संलग्नाः, शीतेतरा- उष्णाः, अंशवः- किरणा यस्मिन् तादृशे, [सुमेरौ तव तेजः] पर्याप्तं परितो व्याप्तमिति सम्बन्धः । अत्र स्रग्धराच्छन्दसि छावच्छिन्नः [ सप्तभिः] अक्षरैर्यतिरिति तदवच्छिन्नो भागः 'चामीकर' इति पदस्य मध्ये एव समाप्त इति तस्य भागस्यानेकवर्णत्वम्, अवशिष्टस्य 'कर' इति भागस्यापि तथात्वमिति यतेरौचित्यम् [ १६-६] ॥ उदाहरणान्तरमाह-तथा-कूजत्कोयष्टि० इति- कूजतां- शब्दायमानानां, कोयष्टीनां- टिट्टिभानां, कोलाहलः- आरावः, मुखरिता- शब्दपूर्णा, भूपेषां
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy