SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ३५ [अ० १, सू० १६.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते "कश्चित् कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः, शापेनास्तङ्गमितमहिमा वर्षभोग्येन भर्तुः । यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु, स्निग्धच्छायातरुषु वसति रामगिर्याश्रमेषु ॥” इति । स्वाधिकारप्रमत्तः पूजावसरसम्पादनीयपुष्पपूर्तिरूपस्वनियोगाच्च्युतः, कश्चित् अज्ञातनामा, यक्षः देवयोनिविशेषः, कान्ताविरहगुरुणा कान्तया सह विरहो-वियोगः, तेनैव गुरुणा-दुर्वहेन, वर्षभोग्येन एकाब्दपर्यन्तस्थायिना, भर्तः यक्षेश्वरस्य कुबेरस्य, शापेन कान्तासक्तरेवैवं त्वं स्वाधिकारात् प्रच्यवसे इति वर्ष यावत् तया वियुक्तो भवेत्याक्रोशेन, अस्तङ्गमितः- नष्टो महिमा- स्वेच्छाविहारादिरूपमैश्वर्यं यस्य तादृशः सन्, जनकतनयास्नानपुण्योदकेषु जानकीशरीरसम्पर्कपरिपूतसलिलेषु, रामगिर्याश्रमेषु चित्रकूटस्थमुनिनिवासेषु, कीदृशेषु ? स्निग्धच्छायातरुषु निबिडनमेरुवृक्षयुक्तेषु, वसति निवास, चक्रे इत्यन्वयः। अत्र मन्दाक्रान्ताच्छन्दसि "मो भ्नौ तौ गौ मन्दाक्रान्ता घ-चैः” [ २-२६० ] इति लक्षिते चतुभिः षड्भिश्च विरामस्य युक्तत्वात् 'यक्षश्चक्रे' इति चतुरक्षरांशस्यालुप्तविभक्तिकत्वम्, 'जनकतनया' इति षडक्षरांशस्य तु लुप्तविभक्तिकत्वमेव, तथा प्रथमपादादौ घावच्छिन्नांशस्य लुप्तविभक्तिकत्वं चावच्छिन्नांशस्य त्वलुप्तविभक्तिकत्वमेवेत्येवं विचारेऽस्यापि लुप्तालुप्तविभक्तिकोदाहरणत्वमेवेति नैतयोः कश्चिद् भेद उदाहरणयोरिति युक्त मुत्पश्यामः [ १६-६ ] । इत्थं कारिकोक्तां त्रिरूपामपि यतिमुदाहृत्य 'लुप्तालुप्तविभक्तिके' इत्यंशस्य प्रथमपादविषयेऽपि सम्बन्ध इत्याह- लुप्तालुप्तविभक्तिके इति यतिः सर्वत्र पादान्ते' इत्यनेनापि सम्बध्यत इति, तथा च पादान्तयतेरपि द्वैविध्यं सम्मतमिति भावः । तदुदाहरति- यथा नमस्तुङ्गेति, [ हर्षाख्यायिकागतं ] पद्यमिदं हलायुधेन छन्दःशास्त्रवृत्तौ मङ्गलत्वेनोक्तम् एतद्विषयोदाहरणत्वेन च। तुङ्गशिरश्चुम्बी-उन्नतमस्तकारूढः, चन्द्र एव चामरस्तेन चारु:-सुन्दरस्तस्मै, त्रैलोक्यमेव नगरं-पुरं, तस्यारम्भे-तदादौ, मूलस्तम्भाय- आधारस्थाणवे, शम्भवे महेश्वराय, नम इत्यन्वयः । यथा कस्यचिन्नगरस्य समारम्भसमये चामरान्वितो मूलस्तम्भः स्थाप्यते तथैवायमपि त्रैलोकस्य मूलभूतः
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy