________________
३४
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० १, सू० १६.] नास्ति, तथा च समासस्थपूर्वोत्तरपदयोर्मध्ये यावानेव कालो विच्छेदस्य स एवात्र समाश्रयितुं युज्यते, न च तावता श्लोकार्धविरतिः स्पष्टीभवतीति 'श्लोकार्धे तु विशेषतः' इत्युक्ता विशिष्टा यतिर्नेहेत्येवं न प्रयोज्यमिति समुदितार्थः [ १६-४ ] ॥
तृतीयां यतिमुदाहर्तमाह- गादिच्छिन्नेति- व्याख्यातोऽयमंशः । उत्तुङ्गस्तनेति- इदं पद्यं पिङ्गलछन्दःशास्त्रे हलायुधेन प्रहर्षिणीच्छन्दस उदाहरणत्वेन उदाहृतम्, तत्र पूर्वार्धमात्रमत्र पठितं तावतैवोदाहरणसम्पत्तेः । उत्तरार्धे तु तत्रेत्थमुक्तम्- "बिम्बोष्ठी नरवरमुष्टिमेयमध्या सा बाला भवतु मनःप्रहर्षिणीति ॥” इति । उत्तुङ्गम्- अत्युन्नतं, स्तनकलशद्वयं- कलशोपमं कुचयुग्मं यस्याः सा, नताङ्गी स्तनभारभङ्गुरशरीरा, लोलाक्षी चपलनयना, विपुलनितम्बशालिनी विपुलेन- विशालेन, नितम्बेन- कटिपश्चाद्भागेन, शालतेशोभते तच्छीला, बिम्बोष्ठी बिम्बवत् स्वनामप्रसिद्धपक्कफलवत् रक्तवर्णी ओष्ठौ यस्याः सा, नरवरमुष्टिमेयमध्या नरवरस्य-पुरुषश्रेष्ठस्य तत्सहवासोचितस्य, मुष्टया मेयं- परिच्छेद्यं कृशतरमिति यावत्, मध्यम् - उदरप्रदेशो यस्याः, तथाभूता बाला- प्रथमावतीर्णयौवना, मनःप्रहर्षिणी मानसोल्लाससम्पादिका भवत्वित्यन्वयः । अत्र "म्रो जो गः प्रहर्षिणी गैः" [२-१९७] इति लक्षणानुसारं समस्ते लुप्तविभक्तिकेन गावच्छिन्नपदेन, असमस्ते च अलुप्तविभक्तिकेन गावच्छिन्नपदेन, अवच्छिन्नेषु पदेषु यतिः स्पष्टा। अन्ये तु पद्यमिदं केवलं लुप्तविभक्तिकस्य गावच्छिन्नपदान्तस्योदाहरणमिति व्याचक्षते, तन्मते उत्तुङ्गेत्यत्र ऐकाथुन 'लोलाक्षी, बिम्बोष्ठी, बाला' इति पदेषु ड्याः परत्वनिमित्तत्वेन च विभक्तेलृप्तत्वमिति यथाकथंचिल्लुप्तविभक्तित्वमस्त्येव । परं तैरेव लुप्तविभक्तिपदव्याख्यानसमये ऐकार्थ्यनिमित्तलुपैव लुप्तविभक्तित्वं ग्राह्यमित्युक्तमिति पूर्वापरविरोधस्तेषां स्पष्टः । तथा च लोलाक्षीत्यादीनां लुप्तविभक्तिकत्वेऽपि नात्र लुप्तविभक्तिकत्वरूपेण ग्रहणमिति युक्तमुत्पश्यामः । अस्तु वा तल्लुप्तविभक्तघंशस्यैवोदाहरणम्, स्पष्टमलुप्त विभक्तिकमुदाहर्तुं तादृशस्थलविशेषस्यापि सत्त्वात् [ १६-५] ॥ .. तत्रोदारणान्तरमाह- यक्षश्चक्र इति, कालिदासकवेर्मेघदूतस्याद्यपद्यस्यांशोऽयम् । पूर्ण च पद्यं यथा