SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ [अ० १, सू० १६.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते यतिर्युक्तेति भावः । शशाङ्कार्घधारिणे अर्घचन्द्र युक्तललाटाय, तस्मै प्रसिद्धाय, महादेवाय शिवाय, नम इति तदर्थः [१६-२] ॥ ___ इत्थं प्रथमपादोक्तां यतिमुदाहृत्य द्वितीयपादोक्तयतेरुदाहरणावसरे पूर्व तदर्थ स्पष्टयति- 'इलोकार्धे तु विशेषतः' इत्यत्र सन्धिकार्याभावः स्पष्टविभक्तिकत्वं च विशेषः इति, अयमाशयः- साधारण्येन यतिस्तु यथा प्रथमपादान्ते तथैव द्वितीयपादान्तरूपे श्लोकार्धेऽपि भवत्येव किन्तु प्रथमपादान्तस्य द्वितीयपादादिना सह सन्धिरपि भवति, किन्तु द्वितीयपादान्तस्य तृतीयपादादिना सह सन्धिर्न भवति । किञ्च प्रथमपादान्ते विभक्तेः स्पष्टताऽनावश्यकी पदमध्येऽपि क्वचित् प्रथमपादान्तविश्रामदर्शनात् तस्य सर्वानुमतत्वाच्च, किन्तु द्वितीयपादान्ते विभक्तेः स्पष्टता तृतीयपादादिना सहासम्बन्धार्थमावश्यकीत्येव श्लोकार्धयतौ विशेष इति । तथा च समुचितां पादार्धयतिमुदाहरति- नमस्यामि सदोद्भूतमिति, सदोदभूतं कालत्रयेऽपि प्रकाशमानम्, इन्धनीकृतमन्मथम् इन्धनीकृतःस्वललाटनेत्रोत्थवह्नह्यतामानीतः, मन्मथः- कन्दर्पो येन तत्, ईश्वराख्यम् ईश्वरेति नाम्ना आख्यायमानम्, अज्ञानतिमिरापहम् अज्ञान- वस्तुतत्त्वाप्रकाश एव तिमिरमन्धकारः, तमपहन्ति- नाशयतीति तथाभूतम्, परं ज्योतिः उत्कृष्टतरं तेजः, नमस्यामि प्रणमामीत्यन्वयः [१६-३ ] ॥ अत्र यते: साधारण्येऽपि यो विशेषस्तमाह- अत्र ईश्वरमित्यस्येत्यादिना, अत्र 'ईश्वराख्यम्' इति प्रतीकोपादानं युक्तम्, ईश्वरमिति पदस्य तृतीयपादादावदृष्टत्वात्, तथा च 'ईश्वरमित्यस्य, इति लेखो लेखकप्रमादादायात इति संभावयामः । पूर्वार्धान्ते समागतस्य 'म्'कारस्य तृतीयपादादिना ईकारेण सह सन्धिःमेलनं न कर्तव्यः; मात्राकालविच्छेदमाश्रित्य तेन सह संहिता न कार्या, तथा च न कृताऽपि । किञ्चान्योऽपि विशेष इत्याह- स्पष्टविभक्तित्वं च अत्रैव स्पष्टविभक्तिकत्वांशस्यापि इदमेवोदाहरणं युक्तमिति भावः । ___ प्रत्युदाहरणं दर्शयितुमाह-न त्वेवं यथा-सुरासुरेति- सुरासुराणां- देवदानवानां, शिरःसु यानि रत्नानि तेषां स्फुरन्तीभिः- उद्गच्छन्तीभिः, किरणमञ्जरीभिः- प्रकाशकलिकाभिः, पिञ्जरीकृतं- चित्रितं, पादाब्जद्वन्द्वं- चरणकमलयुगलं यस्य तादृशं, शिवं, वन्दामहे- प्रणमाम इत्यन्वयः । अत्र तृतीयपादेन सह द्वितीयपादस्यापि सम्बन्धात् तस्य समस्तपदतया स्पष्टविभक्तिकत्वं
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy