SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ [अ० १, सू० १६.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते [१६-३६] इति । तदेतत् सर्व श्रव्यपदेनेव गतार्थमिति न सूत्रितम् । अनिविष्यतिकेऽपि च छन्दसि श्रव्येव यतिः करणीया । न पुनरेवं यथा "तेन शशिमुखि! गतेन सखि! कि प्रियेण कुरु मानमपि तस्मिन् । स तव वरतनु! समदनः स्वयमेव समेति चरणयुगम् ॥" [१६-४०] इति । तयाहि "अबह्वापि मधुरा मनो हरति भारती। तमोनिचयसंकाशा मत्तनादेव कोकिला ॥" [१६-४१] इति ॥सू-१६॥ प्रद्योतः- छन्दोविषयाः संज्ञाः कथयन्नवसरप्राप्तां यतिमाह- श्रव्यो विरामो यतिः इति । विवृणोति-विरमणं विराम इति-विपूर्वस्य रमेर्गतिविच्छेदोऽर्थः, तथा चैकधारया पठ्यमानस्य च्छन्दसो मध्ये पाठविच्छेदो विरामः, पर्यायमाह-विश्रामः इति- स एव विश्रामोऽत्र शास्त्रे यतिरित्याख्यायत इत्यर्थः । भावव्युत्पत्त्याऽर्थवर्णनमिदम्, आधारव्युत्पत्त्या तु विरमन्त्यति विराम इति, तथा च विश्रामस्थानं यतिरित्यायाति । यद्यपि यतिशब्देन न कापि व्यवहृतं तथापि अधिकारार्थमेतदुक्तमित्यनुपदं स्फुटीकरिष्यते । श्रव्यपदं व्याचष्टे-श्रुतिसुखः इति-श्रुतिभ्यां कर्णाभ्यां सुखः-सुखकर इत्यर्थः, यथा पठ्यमानस्य च्छन्दस: श्रवणात् सुखमनुभूयते तथा विरामे यतिरिति भावः । विरामश्चार्धमात्राकालव्यवच्छेदः पादमध्ये, पादान्ते च मात्राकालव्यवच्छेदः, द्वितीयपादान्ते च मात्राद्वयव्यवच्छेद इति केचित् । तदाह "श्लोकेऽर्धमात्रा तु यतो विरतो मात्रयाऽन्तरम् । विच्छेदे त्वत्र मात्रे द्वे अवसाये ततोऽधिकम् ॥” इति । तत्र यतिः पादमध्यविश्रामः, विरतिः पादान्तविश्रामः, विच्छेदः श्लोकाविश्रामः, अवसायः श्लोकसमाप्तिः, तत्र मात्राद्वयादप्यधिको विश्राम इति विज्ञेयम् । संज्ञाप्रयोजनमाह- सा च तृतीयान्तेषु ग-घादिनिर्वशेषूपतिष्ठत इति- अनेत सूत्रेण या यतिसंज्ञा विधीयते साऽग्ने "त्र्यादिर्गादिः" [ १-१७ ] इति सूत्रपरिभाषणानुसारं श्यादिवर्णबोधकश्छन्दोलक्षणसूत्रस्थैर्ग-धादिभिस्तृतीयानिर्दिष्टः पदैः सह सम्बध्यते । यथा-"स्तो ल्गो माणवकं पः" [२-७७] इत्यत्र यतिरित्युपस्थितौ चतुभिर्वर्णर्यतिरित्यर्थो भवति । तदाह- गाद्यवच्छि
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy