SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ सवृत्तिच्छन्दोऽनुशासनप्रद्यो श्रव्यो विरामी यतिः ॥ १६ ॥ विरमणं विरामो विश्रामः, स श्रुतिसुखो यतिसंज्ञः । सा च तृतीयान्तेषु धादिनिर्देशेषुपतिष्ठते । गावयश्च साकाङ्क्षत्वात् यतिरित्यनेन सम्बध्यन्ते । तेन गाद्यवच्छिन्नैरभर्रर्यतिः क्रियत इत्ययमर्थः सिध्यति । तत्रैषा यत्युपदेशोपनिषत् पठते २८ [अ० १, सू० १६. ] "यतिः सर्वत्र पादान्ते श्लोका तु विशेषतः । गादिच्छिन्नपदान्ते च लुप्तालुप्तविभक्तिके ।" [१६-१] । तत्र 'यतिः सर्वत्र पादान्ते' यथा " नमोऽस्तु वर्धमानाय स्पर्धमानाय कर्मणा । तज्जयावात मोक्षाय परोक्षाय कुतीथिनाम् ॥” [१६-२] । न पुनरेवं यथा " नमस्तस्मै महादेवाय शशाङ्कार्धधारिणे ॥" [१६-३] । 'श्लोका तु विशेषतः' इत्यत्र सन्धिकार्याभावः स्पष्टविभक्तिकत्वं च विशेषः । यथा "नमस्यामि सदोद्भुतमिन्धनीकृतमन्मथम् । ईश्वराख्यं परं ज्योतिरज्ञानतिमिरापहम् ॥” [ १६-४] । अत्र 'ईश्वरम्' [ ईश्वराख्यम् ] इत्यस्य पूर्वमकारेण सन्धिनं कर्तव्यः । स्पष्टविभक्तिकत्वं चात्रैव । न त्वेवं यथा "सुरासुरशिरोरत्नस्फुरत्किरणमञ्जरी पिञ्जरीकृतपादाब्जद्वन्द्वं वन्दामहे शिवम् ||" [ १६-५ ] । 'गादिच्छिन्नपदान्ते च लुप्तालुप्तविभक्तिके' यथा “उत्तुङ्गस्तनकलशद्वया लोलाक्षी विपुलनितम्बशालिनी च ॥" [ १६-६ ] । "यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु ॥" [१६-७ ] इति । "लुप्तालुप्तविभक्तिके" इति 'यतिः सर्वत्र पादान्ते' इत्यनेनापि सम्बध्यते । यथा ''नमस्तुङ्गशिरश्चुम्बिचन्द्रचामरचार वे । त्रैलोक्यनगरारम्भमूलस्तम्भाय शम्भवे ।।" [१६ -८] । तथा" वशीकृत जगत्कालं कण्ठेकालं नमाम्यहम् ॥" [१६-६ ] इति । तथा
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy