________________
२७
[अ० १, सू० १४-१५.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते सूत्रेण तद्वर्णनम्, किन्तु विशिष्यैव समादिवृत्तानां लक्षणान्याख्यायन्ते, तदाहतत् क्रमेण लक्षयतीति- उक्तविभागसिद्धमेव समादिवृत्तं प्रातिस्विकरूपेण वर्णयतीत्यर्थः । तथा च सूत्रम्- समैः पादैः समम् इति । व्याख्यातिपादश्चतुभिस्तुल्यलक्षणः समवृत्तमिति- यत्र वृत्ते चत्वारोऽपि पादाः समानेन लक्षणेन युक्तास्तद् वृत्तं सममित्याख्यायत इत्यर्थः। अयमर्थः- सममिति न वृत्तान्तरेण साम्यमादायोच्यतेऽपि तु स्वावयवानां चतुर्णामपि पादानां साम्यमादायवेति ॥१३॥
समाधमर्धसमम् ॥ १४ ।। यस्य तुल्ये अर्धे तदर्धसमं वृत्तम् ॥ सू-१४ ॥ प्रद्योतः-क्रमप्राप्तमसमं लक्षयति-समाधमर्धसममिति । व्याख्यातियस्य तुल्ये अर्धे, यस्य- वृत्तस्य, अर्ध- समांशद्वयं द्वि-द्विपादात्मकम्, तुल्येसमानलक्षणलक्षिते, तदर्धसममिति-विज्ञेयमित्यर्थः, अयमाशयः- सर्वेषां पादानां साम्याभावश्चेत् तथापि द्वाभ्यां पादाभ्यां निर्मितयोरयोः साभ्येऽर्धसममिति । यद्यपि समवृत्तेऽपि अर्धयोः साम्यमस्त्येव तथापि समवृत्तभिन्नत्वे सतीत्यपि विशेषणं देयमित्यत्र तात्पर्यम्, अर्धयोरेव साम्यं न तु पादानामित्येवं परत्वात् सूत्रस्य । अर्धसमवृत्तानि हरिणप्लुतादीनि तृतीयाध्याये निरूपयिष्यन्ते ॥१४॥
__ अन्यद् विषमम् ॥ १५ ॥ आभ्यामन्यद् विषमं वृत्तम् ॥ सू-१५॥ प्रद्योतः-पारिशेष्याद् विषमवृत्तस्य वर्णनमवसरप्राप्तं, तदाह-अन्यद विषममिति । विवृणोति-आभ्यामन्यद् विषमं ज्ञेयमिति- आभ्यां पूर्वसूत्रद्वयलक्षिताभ्यां समाऽर्धसमवृत्ताभ्याम्, अन्यद्-विपरीतं विषमं वृत्तं ज्ञेयमित्यर्थः, समैः पादः, अर्धाभ्यां च विगतं समं- साम्ययुक्तं स्वरूपं यस्य तद् विषममित्यर्थः। अर्धसमवृत्तानि अर्धे साम्यं बिभ्रति, विषमं तु क्वापि साम्यं न दधातीत्यर्थः । विषमवृत्तानि वक्त्रादीनि तृतीयाध्याय एव वर्णयिष्यन्ते ॥१५॥