________________
२६
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० १, सू० १३.] इति-स्थिर:-नियतरूपः, गुरुभिलघुभिश्चाक्षरविन्यास:-संनिवेशो यस्य तथाभूतमित्यर्थः । अयमाशयः- वृत्ते यत्र यो गणो यावद्भिर्यथोक्तलघुगुरुप्रस्तारक्रमवद्भिनिरूपितः स तथैव न्यसनीयः, न तु तस्य यथेच्छं विन्यासः, एतदेव स्यष्टयति- पाटन-संयोगयोरभावात् इति- गुरोलघुद्वयकल्पना पाटन, लघुद्वयस्य एकगुरुत्वकल्पना संयोगः, तयोरभावात्- वृत्तच्छन्दसि तथा विधानस्यासंमतत्वात् । अयमर्थः- मात्राच्छन्दसि यावत्यो मात्रा यत्र पादेऽर्थे वा नियतास्ताः स्वेच्छानुसारं लघुभिर्गुरुभिर्वा पूर्यन्ते, यत्र गुरोविन्यास आवश्यकस्तत्र लघुद्वयमपि विन्यस्यते, यत्र च लघुद्वयस्य विन्यास उक्तस्तत्र गुरोरेकस्य विन्यासेनापि छन्दः पूर्यते, न त्वेवं वर्णवृत्ते, तत्र यत्र स्थाने यो गुरुर्लधुर्वा विन्यसनीयत्वेनोक्तः स तथैव विन्यस्यते, न तु तत्र लघुद्वयेन सह गुरोः परस्परविनिमयः शक्यः कर्तुमिति ।
एवमक्षरच्छन्दसां वृत्तसंज्ञामुक्त्वा पारिशेष्यसिद्धमर्थमाह-मात्राच्छन्दांसि तु जातिरिति प्रसिद्धानि इति- मात्राभिनियमितानि मात्राच्छन्दांसि, तानि जातिरिति संज्ञया व्यवह्रियन्ते इति भावः। यद्यप्यक्षरच्छन्दःस्वपि एकाक्षरजातिरिति द्वयक्षरजातिरित्येवं प्रकृत्य उक्तादिजातयोऽमिधास्यन्ते तथापि तत्र जातिशब्द: सामान्यपरो न तु छन्दोभेदपर इत्यवगन्तव्यम् । एवं छन्दसां द्वेधा विभागो न केवलं मयैव परिकल्पितोऽपि तु पूर्वाचार्यव्यवहारोऽपीदृश एवेत्याहयवाहुः- "पधं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा" इति- [ का० ६० १-११ ] अत्र चतुष्पदीति कथनं बाहुल्याभिप्रायकं द्विपदी-पञ्चपद्यादीनामपि वक्ष्यमाणत्वात् पूर्वसूत्रे चर्चितत्वाच [१२-१] ॥१२॥ वृत्तं च समा-ऽर्धसम-विषममेवात् त्रेधा । तत् क्रमेण लक्षयति
समैः पादः समम् ॥ १३ ॥ पाश्चतुभिस्तुल्यलक्षणः समं वृत्तम् ॥ सू-१३ ॥
प्रद्योतः- इत्थं वृत्तपरिचयानन्तरं तद्भेदनिरूपणं प्राप्तावसरमिति तदर्षे सूत्रेऽवसरसङ्गतिमाह- वृत्तं समा-ऽर्धसम-विषमभेदात् अधेति, अयमभिप्राय:- अग्रे त्रिधा वृत्तानि निरूपितानि, तत्र कानिचित् समवृत्तानि कानिचिदर्षसमवृत्तानि कानिचिद् विषमवृत्तानि । अयं च भेदः प्रतीत एवेति न