________________
[अ० १, सू० ११-१२] सवृत्तिच्छन्दोऽनुशासनप्रद्योते पञ्चपदी षट्पदी अष्टपदी च' इति विशेषाभिधानं तत्र द्वितीयाद्यंशोऽपि पावः ॥सू०-११॥
प्रद्योतः-अथ पादसंज्ञामाह-तर्योऽशः पादोऽविशेषे इति । विवृणोतिछन्दसश्चतुर्थो भाग इत्यादिना, छन्दस इति प्रकरणबलादायातम्, तस्य चत्वारो भागा भवन्ति, तेष्वेको भागः पाद इत्याख्यायत इत्यर्थः। द्वितीयाध्याये "पादः" [२-२] इत्यधिकृत्य एकाक्षरपादादीनां छन्दसां कथनं प्रस्तोष्यमाणमिति तदेव पादसंज्ञाप्रयोजनस्थलम् । 'अविशेषे' इत्युक्तम्, तस्याशयमाह- यत्र तु द्विपदीत्यादि । अयमाशयः-वृत्तं जातिश्चेति द्विघा विभक्तानि छन्दांसि, तत्र वृत्तानि चतुष्यदान्येव भवन्ति, जातयस्तु द्विपदी [ चतुष्पदी ] पञ्चपदी षट्पदी अष्टपदीत्येवं विशिष्योक्ताः, तत्र चतुष्पद्यास्तुरीयोंऽशः पादश्वेदविशेष एव वृत्तेभ्यः, द्विपदीपञ्चपद्यादिषु व्यभिचार इति तद्वारणाय 'अविशेषे' इत्युक्तम्, तेषु विशेषस्य विधानान्नायं निययो यत् तुरीयोंऽश एव पादः स्यादिति, तत्र द्वितीय-पञ्चमाद्यंशानामपि पादत्वात्, तुर्यत्वादि च विपरीतगणनायां प्रथमादावप्यस्त्येवेति सर्वेषां भागानां पादत्वम् । तथा च सापेक्षं तुर्यत्वादि, एवं-द्वितीयाद्यंशोऽपीत्यत्रापि विज्ञेयम् । चतु( परिकल्पितस्यैकस्य छन्दस एको भागः पादः, द्विधा परिकल्पिताया द्विपद्यादेरेकोऽश इत्यादिरूपेण बोध्यम्, यस्य च्छन्दसो यावन्तो भागाः परिकल्पितास्तेषां प्रत्येकं पादसंज्ञेति यावत् ॥ सू०-११ ॥
वृत्तम् ॥१२॥ प्राइ मात्राछन्वेभ्यो यदभिधास्यते तद् वृत्तसंज्ञं ज्ञेयम् । तच्च स्थिरगुरुलध्वभरविन्यासमिष्यते पाटन-संयोगयोरभावात्। मात्राछन्दांसि तु जातिरिति प्रसिद्धानि । यदाहुः
"पद्धं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा ।" [१२-१] । प्रद्योतः-पादस्य तुर्यांशस्य कथनात् सम्पूर्णस्य का संज्ञेत्याकाङ्क्षायामाहवृत्तमिति । विवृणोति-प्राक् मात्राछन्दोभ्य इति-आर्यादयो मात्रानियमितानि च्छन्दांसि मात्राच्छन्दांस्युच्यन्ते, तेभ्यः पूर्व यानि च्छन्दांस्युच्यन्ते तेषां वृत्तसंज्ञाऽधिक्रियते । तत्र यो विशेषस्तमाह-तच स्थिरगुरु-लघ्वक्षरविन्यासमिष्यते