SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० १, सू० ११.] घ्यवसिताया निशायाः, धवलानि नक्षत्राण्येव कुसुमानि गलन्ति-पतन्तीति । प्रातःकाले चन्द्रोऽस्तं याति, नक्षत्राणि च दृष्टिपथाद् विलीयन्ते इति वस्तुस्थितिः, तत्र निशां-रात्रि लतात्वेन रूपयित्वा तस्यां स्थितस्य चन्दस्य विहंगमत्वं, नक्षत्राणां च कुसुमत्वं रूपितम्, निशाया उच्छेदकरः प्रातः कालो गजत्वेन निरूपितः, गजोन्मूलितलतायाः पक्षिण उड्डयनं पुष्पाणां पतनं च स्वाभाविकमिति रूपकोपस्थापितः स्वभावोक्तिरलङ्कारः [१०-१] ॥ ओकारस्यकमात्रत्वं यथा-उअ पोमरायेति । “पश्य पद्मरागमरकतसंवलिता नभस्तलात् अवतरति । नभःश्रीकण्ठभ्रष्टा इव कण्ठिका कीरश्रेणिः ॥" इति संस्कृतम् । आकाशात् पतन्ती शुकश्रेणिमक्लोक्य कश्चित् कञ्चित् प्रत्याह-पद्मरागर्मरकतमणिभिश्च संवलिता-मिश्रिता, नभःश्रीकण्ठभ्रष्टा नभःश्रियः-आकाशलक्ष्म्याः , कण्ठात् भ्रष्टा-पतिता, कण्ठिका-कण्ठाभरणमिव, कीरश्रेणिः-शुकपङ्क्तिः , नभस्तलात्- आकाशात्, अवतरति-नीचरायाति । अत्र नभःश्रीः स्त्रीत्वेनाध्यवसिता, शुकपङ्क्तिश्च रक्त-हरितवर्णमणिविशेषनिर्मितया मालयोपमिता, शुकानां चञ्चवो रक्तवर्णा इति पद्मरागमणिस्थानीयाः, शरीरं च हरितमिति मरकतमणिस्थानीयम्, मालारूपेण मण्डलीभूय पतनाच्च मालासाम्यम् । अत्र ‘णहयलाओ' इत्योकारस्य ह्रस्वत्वं भवतीति ऊनत्रिंशन्मात्रा जायन्ते, अन्यथा त्रिशंन्मात्राः स्युः [१०-२] ॥ प्राकृताऽपभ्रंशादिषु कानिचिच्छन्दानुशासनसिद्धान्येव लघुत्वानि प्रकृतोपयोगित्वाद् विवृणोति-'हँ हिँ' इत्यादिना, एतयोः सानुनासिकत्वं प्राकृतशब्दानुसासने विहितम्, सानुनासिकत्वं हि न काञ्चिन्मात्रामाधत्तेऽपि तु तस्य । नासिकयोच्चार्यत्वमात्रं विधत्ते इति न तेन मात्रावृद्धिरिति ह्रस्वत्वं तिष्ठत्येव । अपभ्रंशे तु उच्चारणलाघवार्थ सूत्रस्य मुक्तमेवेत्याह- अपभ्रंशे तु कादिस्थदोतोरिति, पदान्ते० इति च आभ्यां सूत्राभ्यामेकारौकारयोः सानुस्वाराणाम् 'उँ' इत्यादीनामुच्चारणे लाघवं विधीयते, ततश्चेह पुनस्तस्य विधानमानवश्यकमिति न कथ्यते इत्याह- ह्रस्वत्वं शब्दानुशासने निर्णीतमिति नेहोच्यत इति ॥ सू०-१०॥ तुर्योंशः पादोऽविशेषे ॥ ११॥ छन्दसनतुर्यों भागः पादसंज्ञः, अविशेषे-सामान्यामिषाने । यत्र तु 'द्विपदी
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy